________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः] राजनिघण्टुः।
गुणाः-कार्पासी मधुरा शीता स्तन्या पित्तकफापहा ॥ ४६ ॥ तृष्णादाहश्रमभ्रान्तिमूर्खाहरलकारिणी।
(२५) अरण्यकार्पासी । वनजाऽरण्यकार्पासी भारद्वाजी वनोद्भवा । गुणाः-भारद्वाजी हिमा रुच्या व्रणशस्त्रक्षतापहा ॥ १७ ॥
(२६) कोकिलाक्षः। कोकिलाक्षः शृगाली च शृङ्खलारणकस्तथा । शृगालघण्टी बज्रास्थि शृङ्खली वज्रकण्टकः ॥ ४८ ॥ इक्षुरः क्षुरको वज्रः शृङ्खलिका पिकेक्षणः । पिच्छिला चेक्षुगन्धा च ज्ञेया भुवनसंमिता ॥ ४९ ॥
गुणाः-कोकिलाक्षस्तु मधुरः शीतः पित्तातिसारनुत् । वृष्यः कफहरो वल्यो रुच्यः संतर्पणः परः ॥ ५० ॥
(२७) कामवृद्धिः। स्यात्कामवृद्धिः स्मरवृद्धिसंज्ञो मनोजवृद्धिर्मदनायुधश्च । कन्दर्पजीवश्व जितेन्द्रियाः कामोपजीवोऽपि च सप्तसंज्ञः ॥५१॥
गुणाः—कामवृद्धेस्तु बीजं स्यान्मधुरं बलवर्धनम् । कामवृद्धिकरं रुच्यं बहुलेन्द्रियवृद्धिदम् ॥५२॥
(२८) झिञ्झिरीटा। . झिझिरीटा कण्टफली पीतपुष्पाऽपि निझिरा । हुँडरोमाश्रयफला वृत्ता चैव पडावया ॥ ५३॥
गुणाः-झिझिरीटा कटुः शीता कषाया चातिसारजित् । वृष्या संतर्पणी वल्या महिषीदृक्षवर्धिनी ॥ ५४॥
इत्थं पृथुक्षुपकदम्बकनामकाण्डनिवर्णनागुणनिरूपणपूर्वमेतम् । वर्ग बहुस्फुटमधीत्य दधीत सद्यः सौवर्गवैद्यकविचारसुचातुरी सः ॥५५॥ येन स्वेन नृणां क्षणेन महता वीर्येण सूर्योपमा व्यत्यस्याङ्गविकारमुद्धततया दूरं क्षिपत्यामयान् । स्वस्मिन्नाम्न्यपि संस्तवादिवशतस्तेषां विकारोदयव्यत्यासं दधतां नितान्तगहनो वर्गः क्षुपाणामयम् ॥५६॥ संतापं विदुषां प्रसह्य समितिस्फीतं प्रतापं द्विषां यस्मिन्विस्मयतेऽवनं च निधनं दत्त्वाऽधुना
१ ज. हुण्डरो। २ . ड. हिषाम्रक्ष । ३ ज. षीम्रक्ष ।
For Private and Personal Use Only