________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः] राजनिघण्टुः।
(१२) भेण्डा। भेण्डा भिण्डातिका भिण्डो भिण्डकः क्षेत्रसंभवः । चतुष्पदश्चतुष्पुण्ड्रः सुशाकश्चाम्लपत्रकः ॥ २५ ॥ करपर्णी वृत्तवीजो भवेदेकादशाह्वयः। गुणाः-भेण्डा त्वम्लरसा सोणा ग्राहिका रुचिकारिका ॥ २६ ॥
(१३) पुत्रदा । पुत्रदा गर्भदात्री च प्रजादाऽपत्यदा च सा । सृष्टिपदा प्राणिमाता तापसद्रुमसंनिभा ॥ २७ ॥
गुणाः-पुत्रदा मधुरा शीता नारीपुष्पादिदोपहा । पित्तदाहभ्रमहरा गर्भसंभूतिदायिका ।। २८॥
(१४) तक्राहा। तक्राहा तक्रभक्षा तु तक्रपर्यायवाचिका । पञ्चाङ्गुली सिताभा स्यादेषा पञ्चाभिधा स्मृता ॥ २९ ॥ गुणाः–तका कटुः कृमिघ्नी स्याव्रणनिर्मूलिनी च सा ।
(१५) स्वर्गुली। स्वर्गुली हेमपुष्पी स्यात्स्वर्णपुष्पध्वजा तथा । गुणाः-स्वर्गुली कटुका शीता कषाया च व्रणापहा ॥ ३० ॥
(१६) सिगृडी। सिगृडी मतिदा प्रोक्ता बल्या पङ्गुत्वहारिणी । दृपत्पत्री च वातघ्नी गुच्छपुष्पी च सप्तधा ॥३१॥
गुणाः-सिगृडी कटुरुष्णा च वातहृत्पृष्ठशूलहा । युक्त्या रसायने योग्या देहदाळकरी च सा ॥ ३२॥
(१७) आहुल्यम्। आहुल्यं हैलुराख्यं च गरं तरवटं तथा । शिम्बीफलं सुपुष्पं स्यादवुरं दन्तकाष्टकम् ॥ ३३ ॥ हेमपुष्पं तथा पीतपुष्पं काञ्चनपुष्पकम् । नृपमङ्गल्यकं चैव शरत्पुष्पं त्रिरेकधा ॥ ३४ ॥
गुणाः-आहुल्यं तिक्तशीतं स्याचक्षुष्यं पितँदोपनुत् । मुखरुकुष्ठकण्डूतिजन्तुशूलव्रणापहम् ॥ ३५॥
१ ज. ट. भिण्डा । २ अ. द. भिण्डीतको । ३ ज. ट. हलरा । ४ ज. ट. ड. तदाहनु ।
For Private and Personal Use Only