SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ शताहादिःगुणाः—महाराष्ट्री कटुस्तीक्ष्णा कषाया मुखशोधनी । व्रणकीटादिदोषघ्नी रसदोषनिवर्हणी ॥ १४ ॥ (७) तैरिणी। तैरिणी तेरणस्तरः कुनीली नामतश्चतुः । गुणाः-तरेणः शिशिरस्तिक्तो व्रणनोऽरुणरङ्गदः ॥ १५ ॥ (८) सुतश्रेणी। सुतश्रेणी द्रवन्ती च न्यग्रोधी मूषिकाया । चित्रा मूषकमारी च प्रत्यक्श्रेणी च शम्बरी ॥ १६ ॥ ___गुणाः-सुतश्रेणी च चक्षुष्या कटुराखुविषापहा । व्रणदोपहरा चैव नेत्रामयनिकृन्तनी ॥ १७॥ (९) चञ्चुः । चुञ्चश्व विजला चञ्चः कलभी वीरपत्रिका । चञ्चुरश्चञ्चपत्रश्च सुशाकः क्षेत्रसंभवः ॥ १८ ॥ गुणाः--चञ्चस्तु मधुरा तीक्ष्णा कषाया मलशोषणी । गुल्मोदरविबन्धार्थीग्रहणीरोगहारिणी ॥ १९ ॥ (१०) बृहच्चञ्चुः । बृहँच्चञ्चुर्विपारिः स्यान्महाचञ्चः सुचञ्चुका । स्थूलचञ्चर्दीर्घपत्री दिव्यगन्धा च सप्तधा ॥ २०॥ ___ गुणाः—महाचञ्चः कटूष्णा च कषाया मलरोधनी । गुल्मशूलोदरार्थोतिविषन्त्री च रसायनी ॥ २१॥ (११) क्षुद्रचञ्चुः । क्षुद्रचञ्चः सुचञ्चः स्याचञ्चुः शुनकचञ्चुका । त्वक्सारभेदिनी क्षुद्रा कटुका कटुपत्रिका ॥ २२ ॥ गुणाः-क्षुद्रचञ्चस्तु मधुरा कटूष्णा च कषायिका । दीपनी शूलगुल्माःशमनी च विबन्धकृत् ॥ २३ ॥ चञ्चुबीजगुणाः-चञ्चुबीजं कटूष्णं च गुल्मशूलोदरातिजित् । विषत्वग्दोपकण्डूलीकण्डूकुष्ठरुजापहम् ।। २४ ॥ १ ज. मलशोधनी । २ ङ. विजुला। ३ ज. चिरपत्रिका। ४ झ, 'का चुच। ५ झ. 'रश्रुश्च । ६ झ. हचु । ७ ज. लशोध । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy