________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः]
राजनिघण्टुः। गुणाः-नद्याम्रः कटुरुष्णश्च रुच्यो मुखविशोधनः। कफवातप्रशमनो दाहकृद्दीपनः परः ॥२॥
(२) अग्निदमनी । अथाग्निदमनी वह्निदमनी बहुकण्टका । वल्लिकण्टारिका गुच्छफला क्षुद्रफला च सा ॥ ३ ॥ विज्ञेया क्षुद्रदुस्पर्शा क्षुद्रकण्टारिका तथा । मर्येन्द्रमाता दमनी स्यादित्येपा दशाह्वया ।। ४ ।।
गुणाः—कटूष्णा चाग्निदमनी रूक्षा वातकफापहा । रुचिकृद्दीपनी हृद्या गुल्मप्लीहापहा भवेत् ॥ ५॥
(३) शरपुङ्खा । शरपुडा काण्डपुङ्खा वाणपुलेषुपुखिका । ज्ञेया सायकपुला च खगपुङ्खा च सप्तधा ॥ ६॥ शराभिधा च पुङ्खा स्याच्छ्वेताट्या सितसायका । सितपुवा श्वेतपुया शुभ्रपुडा च पञ्चधा ॥ ७॥
गुणाः-शरपुडा कटूष्णा च कृमिवातरुजापहा । श्वेता त्वेषा गुणाढ्या स्यात्प्रशस्ता च रसायने ॥ ८॥
(४) कण्टपुङ्खा । अन्या तु कण्टपुडा स्यात्कण्टालुः कण्टपुटिका । गुणाः-कण्टपुडा कटूणा च कृमिशूलविनाशनी ॥ ९ ॥
(५) शणः। शणस्तु माल्यपुष्पः स्याद्वमनः कटुतिक्तकः । निशावनो दीर्घशाखस्त्वक्सारो दीर्घपल्लवः ॥१०॥
गुणाः-शणस्त्वाम्लः कपायश्च मलग स्रपातनः । वान्तिकद्वातकफनुज्जेयस्तीवाङ्गमर्दजित् ॥ ११ ॥
(६) महाराष्ट्री। महाराष्ट्री तु संप्रोक्ता शारदी तोयपिप्पली । मत्स्यादनी मत्स्यगन्धा लागली शकुलादनी ॥ १२ ॥ अग्निज्वाला चित्रपर्णी प्राणदा जलपिप्पली । तृणशीता वहुशिखा स्यादित्येतास्त्रयोदश ॥ १३ ॥
१ ज. "ग्निधम । २ ज. हिधम । ३ ज. 'ग्निधम । ४ ज. प्लीहमला अयेत् । ५ ज, निशाचगे। ट. निशादनो । ६ ज. 'र्भामपा । ७ ज. तोयवल्लरी ।
For Private and Personal Use Only