________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ तृतीयो वर्गः ]
राजनिघण्टुः । (१३) कर्णस्फोटा |
कर्णस्फोटा श्रुतिस्फोटा त्रिपुटा कृष्णतण्डुला । चित्रपण स्फोटलता चन्द्रिका चार्धचन्द्रिका ॥ ४१ ॥
गुणाः कर्णस्फोटा कटुस्तिक्ता हिमा सर्वविषापहा । ग्रहभूतादिदोषघ्नी सर्वव्याधिविनाशनी ।। ४२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
(१४) कवी |
कवी कटुकवल्लीच सुकाष्ठा काष्ठवल्लिका । सुवल्ली च महावल्ली पशुमोहिनिका कटुः ॥ ४३ ॥
गुणाः- कवी तु कटुका शीता कफश्वासार्तिनाशनी । नानाज्वरहरा रुच्या राजयक्ष्मनिवारिणी ॥ ४४ ॥
३३३
(१५) *अमृतस्रवा ।
ज्ञेयाऽमृतस्रवा वृक्षारुहाख्या तोयवल्लिका । घनवल्ली सितलता नामभिः शरसंमिता ।। ४५ ।
गुणाः-उक्ताऽमृतस्रवा पथ्या ईपत्तिक्ता रसायनी । विषघ्नी व्रणकुष्ठामकामलाः श्वयथुं जयेत् ॥ ४६ ॥
(१६) पुत्रदात्री |
पुत्रदात्री तु वातारिभ्रमरी श्वेतपुष्पिका | वृत्तपत्राऽतिगन्धालुर्वेशीजाता सुवल्लरी ॥ ४८ ॥
गुणाः पुत्रदात्री तु वातघ्नी कटुरुष्णा कफापहा । सुरभिः सर्वदा पथ्या वन्ध्यादोपविनाशनी ॥ ४७ ॥
(१७) पलाशी |
1:01
पलाशी पत्रवल्ली च पर्णवल्ली पलाशिका | सुरपर्णी सुपर्णी च दीर्घवल्ली विषादनी ।। ४९ ।। अम्लपत्री दीर्घपत्री रसाम्ला चाम्लिका च सा । अम्लातकी काञ्जिका च स्याच्चतुर्दशधाभिधा ॥ ५० ॥
गुणाः – पलाशी मधुराम्ला च मुखदोषविनाशनी । अरोचकहरा पथ्या पित्तकोपकरी च सा ॥ ५१ ॥
For Private and Personal Use Only
इति बहुविधवलीस्तोमनामाभिधानप्रगुणगुणयथावद्वर्णनापूर्णमेतम् । सुल
* इयममृतस्रवा चित्रकूटप्रदेशे प्रसिद्धा । मालवे प्रसिद्धेयम् । + नागरदेशे प्रसिद्धा ।
१ च. ट, ड.° लुर्वशी ।