________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः ] राजनिघण्दुः।
(३) खवल्ली। खवल्लयाकाशवल्ली स्याहुस्पर्शा व्योमवल्लिका । आकाशनामपूर्वा सा वल्लीपर्यायगा स्मृता ॥ १९ ॥
गुणाः --आकाशवल्ली कटुका मधुरा पित्तनाशिनी । वृष्या रसायनी बल्या दिव्यौषधिपरा स्मृता ॥ २० ॥
(४) आखुकर्णी । स्यादाखुकी कृषिका द्रवन्ती चित्रा सुकर्म्युन्दुरुकणिका च । न्यग्रोधिका मूषकनामकर्णी स्यादृश्चिकर्णी वहुकणिका च ॥ २१ ॥ माता भूमिचरी चण्डा शंवरी बहुपादिका । प्रत्यक्श्रेर्णी वृषा चैव पुत्रश्रेण्यद्रिभूवया ॥ २२ ॥
गुणाः-आखुकर्णी कटूष्णा च कफपित्तहरा सदा । आनाहज्वरशूलार्तिनाशिनी पाचनी परा ॥ २३ ॥
(५) रुद्रजटा। रौद्री जटा रुद्रजटा च रुद्रा सौम्या सुगन्धा सुवहा घना च । स्यादीश्वरी रुद्रलता सुपत्रा सुगन्धपत्रा सुरभिः शिवाहा ॥ २४ ॥ पत्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा । महाजटा जटारुद्रा नाम्नां विंशतिरीरिता ॥ २५ ॥
गुणाः-जटा कटुरसा श्वासकासहृद्रोगनाशिनी । भूतविद्रावणी चैव रक्षसां च निवर्हिणी ॥ २६ ॥
(६) इन्दीवरी । इन्दीवरी युग्मफला दीर्घवृत्तोतमारणी । पुष्पमञ्जरिका द्रोणी करम्भा नलिका च सा ॥ २७॥
गुणाः—इन्दीवरी कटुः शीता पित्तश्लेष्मापहारिका । चक्षुष्या कासदोषघ्नी व्रणकृमिहरा परा ॥ २८ ॥
(७) सोमवल्ली। सोमवल्ली महागुल्मा यज्ञश्रेष्टा धनुर्लता । सोमार्दा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ॥ २९ ।। सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यका ।
गुणाः—सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् । तृष्णाविशोषशमनी पाचनी यज्ञसाधनी ॥ ३०॥
१ट. त्तोऽत्र वारुणी। २ ज. नालिका ।
For Private and Personal Use Only