________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३०
परिशिष्टो
[ गुडूच्यादि:
तथा स्मृता । वन्ध्या कर्कोटकी प्रोक्ता कटुतुम्ब्याखुकणिका || ३ || द्विवेन्द्रवारुणी चात्र यवतिक्केश्वरी तथा । ज्योतिष्मती द्विधा चैव द्विधाच गिरिकर्णिका || ४ || मोरवाथ चेदिन्दीवरी बस्तात्रिका च सा । सोमवल्ली तथा वत्सादन गोपालकी ॥ ५ ॥ काकतुण्डी द्विधा चाथ गुञ्जा द्विर्वृद्धदारु च । कैवर्ती ताम्रवल्लीच काण्डीरी चाथ जन्तुका || ६ || अम्लपर्णी तथा शङ्खपुष्पी चाssवर्ती तथा । कर्णस्फोटा तथा कवी लता चैवामृतस्रवा ॥ ७ ॥ पुत्रदा च पलाशी च विज्ञेयाश्च नवाभिधाः । सुमतिभिरित्थमनूक्ता बोद्धव्या वीरुधः क्रमादेताः । अस्मिन्वीरुदर्गे नाम्ना च गुणैश्च कीर्त्यते ॥ ८ ॥ आपानीयात्परिगणनयैवाप्रसिद्धाभिधानां नाम्नामुक्ता परिमितिकथाऽप्यत्र सर्वोषधीनाम् । साऽपि कापि स्फुटमभिधया कापि च प्रौढभङ्गया प्रोक्ता नोक्ता प्रथितविषये साऽपि नष्टाङ्कवाक्ये ॥ ९ ॥ तस्मादिह न यत्रोक्ता नाम्नामङ्कादिनिर्मितिः । तत्र तत्राष्टसंख्यैव ज्ञेया सर्वत्र सूरिभिः || १० || यद्यपि कापि नष्टाङ्कसंख्यानियतिरीक्ष्यते । तत्र स्फुटत्वबुद्ध्यैव नोक्ता संख्येति बुध्यताम् ॥ ११ ॥ द्रव्याणां गणशो नियोगवशतो वीर्यं परे प्रोचिरे प्राचीनैर्न च तद्वशेन निगमेपूक्तचिकित्साक्रमः । तस्मान्नैगमयोगसंग्रहविदां संवादवाग्भिस्तथा नैवास्माभिरभाणि किंतु तदिह प्रत्येकशः कथ्यते ।। १२ ।।
( १ ) हेमा ।
हेमा हेमवती सौम्या तृणग्रन्थिहिमाश्रया । स्वर्णपर्णी सुजीवन्ती स्वर्णजीवा सुवर्णका || १३ || हेमपुष्पी स्वर्णलता स्वर्णजीवन्तिका च सा । हेमवल्ली हेमलता नामान्यस्याश्चतुर्दश ॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः स्वर्णजीवन्तिका दृष्या चक्षुष्या मधुरा तथा । शिशिरा वातपित्तासृग्दाहजिद्धलवर्धिनी ॥ १५ ॥
( २ ) लिङ्गिनी ।
लिङ्गिनी बहुपत्री स्यादीश्वरी शिववल्लिका | स्वयंभूलिङ्गसंभूता लैङ्गी चित्रफला मता ।। १६ ।। चण्डाली लिङ्गजा देवी चण्डाऽयस्तम्भिनी तथा । शिवजा शिववल्ली च विज्ञेया षोडशाद्दया ।। १७ ।।
गुणाः – लिङ्गिनी कटुरुष्णा च दुर्गन्धा च रसायनी । सर्वसिद्धिकरी दिव्या चश्या रसनियामिनी ॥ १८ ॥
१ ज. मनुक्ता ।
For Private and Personal Use Only