________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[ गुडूच्यादि:राजनिघण्टौ शताहादिश्चतुर्थो वर्गःस्यात्पृश्निपर्णी कलशी महागुहा शृगालविना धमनी च मेखला । लाङ्गलिका क्रोष्टुकपुच्छिका गुहा शृगालिका सैव च सिंहपुच्छिका ॥ ११७ ॥ पृथक्पर्णी दीर्घपर्णी दीर्घा क्रोष्टुकमेखला । चित्रपर्युपचित्रा च श्वपुच्छाऽष्टादशाह्वया ॥ ११८ ॥
गुणाः—पृश्निपर्णी कटूष्णाम्ला तिक्तातीसारकासजित् । वातरोगज्वरोन्मादवणदाहविनाशिनी ॥ ११९ ।।
(२७) बृहती॥ बृहती सिंहिका कौन्ता वार्ताकी राष्ट्रिका कुली । विषदा स्कूलकण्टाकी महती तु महोटिका ॥ ९३ ॥
गुणाः-सिंहिका कफवातघ्नी श्वासशूलज्वरापहा । छर्दिहद्रोगमन्दाग्निमामदोषांश्च नाशयेत् । बृहती ग्राहिणी सोष्णा वातघ्नी पाचनी तथा ॥ ९४ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःबृहती महती कान्ता वार्ताकी सिंहिका कुली । राष्ट्रिका स्थूलकण्टा च भण्टाकी तु महोटिका ॥ १२० ॥ बहुपत्री कण्टतनुः कण्टालुः कदफला तथा । डोरली वनन्ताकी नामान्यस्याश्चतुर्दश ॥ १२१ ॥
गुणाः—बृहती कटुतिक्तोष्णा वातजिज्ज्वरहारिणी । अरोचकामकासघ्नी श्वासहृद्रोगनाशिनी ॥ १२२ ॥
सर्पतनुः । (बृहतीविशेषः ) ॥ १७ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःबृहत्यन्या सर्पतनुः क्षविका पीततण्डुला । पुत्रप्रदा बहुफला गोधिनीति षडावया ॥ १२३ ॥
गुणा:-क्षविका वृहती तिक्ता कटुरुष्णा च तत्समा । युक्त्या द्रव्यविशेषेण धारासंस्तम्भसिद्धिदा ॥ १२४ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:
श्वेतबृहतीः। (बृहतीविशेषः ) ॥ १८॥ श्वेताऽन्या श्वेतबृहती ज्ञेया श्वेतमहोटिका । श्वेतसिंही श्वेतफला श्वेतवार्ताकिनी च षट् ॥ १२५ ॥ गुणाः-विज्ञेया श्वेतबृहती वातश्लेष्मविनाशनी । रुच्या चाञ्जनयोगेन
१ण. कान्ता । २ ख. ग. 'लभण्टा । ३ ग. घ. ङ. च. ण्टालीम ।
For Private and Personal Use Only