________________
Shri Mahavir Jain Aradhana Kendra
१ प्रथमो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
अजशृङ्गी (शृङ्गीविशेषः ) ।। १६ ।।
* अजशृङ्गी मेषशृङ्गी सर्पदंष्ट्रा च वर्तिका । द्वितीया दक्षिणावर्ता वृश्चिकाली विषाणिका || ८७ ॥
गुणाः - अजशृङ्गी हिमा स्वादुः शोफतृष्णावमीर्जयेत् । चक्षुष्या स्वादुतृड्रोगविषकासार्तिकुष्ठत् ॥ ८८ ॥
( राजनिघण्टौ भद्रादिर्नवमो वर्गः ) -
* चक्षुष्या तिक्तदुग्धा च पुत्रश्रेणी विषाणिका ।। ११३ ।। गुणाः – अजशृङ्गी कदुस्तिक्ता कफार्शःशूलशोफजित् । चक्षुष्या श्वासहगविषका सातिकुष्ठजित् ॥ ११४ ॥ (२५) शालिपर्णी ।
Acharya Shri Kailassagarsuri Gyanmandir
२३
शालिपर्णी स्थिरा सौम्या त्रिपर्ण्यतिगुहा धुवा ॥ ८७ ।। विदारिगन्धांशुमती दीर्घमूला सुपत्रिका | शालिपर्णीविशेष: आलकं पालकं दग्धं सबलं भूमिगन्धिकम् || ८८ || ज्वलनाभं विशुद्धं च गन्धं बोटं कुसुम्भकम् ।
गुणाः-शालिपर्णी रसे तिक्ता गुरूष्णा वातदोषजित् ।। ८९ ।। विषमज्वरमेहनी शोफवातविनाशनी ।
राजनिघण्टौ शताहादिश्चतुर्थो वर्गः
स्याच्छालिपर्णी सुदला सुपत्रिका स्थिरा च सौम्या कुमुदा गुहा ध्रुवा । विदारिगन्धांशुमती सुपर्णिका स्याद्दीर्घमूलाऽपि च दीर्घपत्रिका ॥ ११३ ॥ वातघ्नी पित्तला तन्वी सुधा सर्वानुकारिणी । शोफनी सुभगा देवी निश्चला व्रीहिपर्णिका ।। ११४ ।। सुमूला च सुरूपा च सुपत्रा शुभपत्रिका | शालिपर्णी शालिदला स्यादूनत्रिंशदाह्वया ।। ११५ ।।
गुणाः -- शालिपर्णी रसे तिक्ता गुरूष्णा वातदोषनुत् । विषमज्वरमेहार्श:शोफ संतापनाशनी ॥ ११६ ॥
(२६ ) पृष्टिपर्णी ॥ ( पृश्निपर्णी )
पृष्टिपर्णी पृथक्पर्णी कलशी धावनी गुहा । मृगालविन्नाऽङ्घिवला पर्णी क्रोष्टुकपुच्छिका ॥ ९० ॥
For Private and Personal Use Only
पृष्टिपर्णीविशेषः सर्वानुकारिणी तन्वी दीर्घपर्णी च पर्णिका । कुमुदाऽतिगुहा चैव विषघ्नी सैव कीर्तिता ॥ ९१ ॥
गुणाः पृष्टिपर्णी रसे स्वादुर्लघृष्णाऽस्रत्रिदोषजित् । कासश्वासप्रशमनी ज्वरदाहनाशिनी ॥ ९२ ॥