________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्वितीयो वर्गः ] राजनिघण्टुः।
३२७ (२८) परिमलः। समं परिमलामोदगन्धसौरभ्यसौरभम् ॥ २७ ॥
(२९) विकसितनामानि ।। उज्जृम्भितमुज्जृम्भं स्मितमुन्मिषितं विनिद्रमुन्निद्रम् । उन्मीलितं विजृम्भितमुद्बुद्धोद्भिदुरभिन्नमुद्भिन्नम् ॥ २८ ॥ विकसितहसितविकस्वरविकचव्याकोशफुल्लसंफुल्लम् । स्फुटमुदितदलितदीर्ण स्फुटितोत्फुल्लप्रफुल्लमेकार्थम् ॥२९॥ संकुचितनामानि निद्राणं मुद्रितं सुप्तं मिलितं मीलितं नतम् । निकूणितं संकुचितं सनिद्रमलसं समम् ॥ ३० ॥
(३०) फलादिनामानि । आहुस्तरूणां फलमत्र सस्यं तदाममुक्तं हि शलाटुसंज्ञम् । शुष्कं तु वानं प्रवदन्ति गुल्मस्तम्बौ प्रकाण्डै रहिते महीजे ॥ ३१ ॥
(३१) लता। उपलं गुल्मिनी वीरुल्लता वल्ली प्रतानिनी । व्रतती व्रततिश्चैषा विस्तीर्णा वीरुदुच्यते ॥ ३२॥
(३२) *नक्षत्रवृक्षाः। अथ वक्ष्यामि नक्षत्रवृक्षानागमलक्षितान् । पूज्यानायुष्पदश्चैिव वर्धनात्पालनादपि ॥ ३३ ॥ विपद्रुधात्रीतरुहेमदुग्धा जम्बूस्तथा खादिरकृष्णवंशाः। अश्वत्थनागौ च वटः पलाशः प्लक्षस्तथाऽम्बष्ठतरुः क्रमेण ॥ ३४ ॥ बिल्वा
* ग्रन्थान्तरे नक्षत्रवृक्षनामानि । तद्यथा-नक्षत्रवक्षाः क्रमशो ( १ अश्विनी ) विषमष्टि( २ भरणी )रथाऽऽमली । ( ३ कृत्तिका ) औदुम्बरो ( ४ रोहिणी ) जम्बुवृक्षः (५ मृगशीर्षम्) खदिर( ६ आर्द्रा )श्चागरुर्मतः ॥ १ ॥ ( ७ पुनर्वस् ) वेणुश्च ( ८ पुष्यम् ) पिप्पलः प्रोक्त( ९ आशेषा )श्चम्पकश्च (१० मघा ) वटो मतः । (११ पूर्वा) पलाशः (१२ उत्तरा) पायरी ( १३ हस्तम् ) जाती ( १४ चित्रा ) बिल्वक(५५ स्वाती )श्चार्जुनः स्मृतः ॥२॥ ( १६ विशाखा ) बबुली ( १७ अनुराधा ) नागपुष्पं च ( १८ ज्येष्ठा ) मोचा च (१९ मूलम्) रालवृक्षकः । ( २० पूर्वाषाढा ) वेत्रो ( २१ उत्तराषाढा ) निचूल( २२ श्रवणम् )श्चार्कश्च ( २३ धनिष्ठा ) शमी चैव ( २४ शततारका ) कदम्बकः ॥ ३ ॥ ( २५ पूर्वाभाद्रपदा ) आम्रोऽ( २६ उत्तराभाद्रपदा )रिष्टो ( २७ रेवती ) मोहवृक्षो ज्ञेया जन्मसंतस्त्वमी । एतेषां पालनं कार्य तच्छ्रेयस्करमुच्यते ॥ ४ ॥ हननं नाशकं प्रोक्तमेतेषां पूर्वसूरिभिः।
१'पायरी' प्लक्षवृक्षः ।
For Private and Personal Use Only