________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६ परिशिष्टो
[ भूम्यादिः(१६) स्कन्धः । स्कन्धःप्रमाणोऽस्य लतास्तु शाखाः स्कन्धोऽथ शाखास्तु भवन्ति शालाः ॥
(१७)जटामज्जानौ। जटाः शिखास्तस्य किलावरोहाः शाखा शिफा मज्जनि सारमाहुः ॥२१॥
(१८)निष्कुटवल्कले। निष्कुटं कोटरं प्रोक्तं त्वचि वल्कं तु वल्कलम् ।
(१९) वल्लरी। नवपुष्पाढ्यशाखाग्रे वल्लरी मञ्जरी तथा ॥ २२ ॥
(२०) पर्णम्। पर्ण पत्रं दलं वह पलाशं छदनं छदः ।
(२१) पल्लवः। स्यात्पल्लवः किसलयः प्रवालः पल्लवं नवम् ॥ २३ ॥
(२२) विस्तारः। विस्तारो विटपः प्रोक्तः प्राग्रं तु शिखरं शिरः।
(२३) पर्णशिरावृन्ते । माढिः पर्णशिरा ज्ञेया वृन्तं प्रसववन्धनम् ॥ २४ ।।
(२४) कोरकः। कोरकमुकुलक्षारकजालककलिकास्तु कुड्मले कथिताः ।
(२५) कुसुमम् । कुसुमं सुमनः प्रसूनप्रसवसुमं सूनफुलपुष्पं स्यात् ॥ २५ ॥
(२६) मकरन्दः। मकरन्दो मरन्दश्च मधु पुष्परसायम् । पौष्पं रजः परागः स्यान्मधूली धूलिका च सा ॥ २६ ॥
(२७ ) गुच्छः । गुच्छो गुलुञ्छस्तवको गुच्छकः कुसुमोच्चयः ।
For Private and Personal Use Only