________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्वितीयो वर्गः] राजनिघण्टुः।
३२५ (६) उद्यानम् । अन्यदुद्यानमाक्रीडो यत्र क्रीडन्ति रागिणः । नृपालयेषु प्रमदवनमन्तःपुरोचितम् ॥ १५॥
(७) महावनम् । महावनमरण्यानी महारण्यं महाटवी ।
(८) उपवनम् । अथोपवनमारामः पुरमान्ते वनं तु यत् ।। १६ ॥
(९) वृक्षः। कुजः क्षितिरुहोऽधिपः शिखरिपादपी विष्टरः कुटस्तरुरनोकहः कुरुहभूरुहद्बुद्रुमाः । अगो नगवनस्पती विटपिशाखिभूजागमा महीनधरणीरुहक्षितिजवृक्षसालाहयाः ॥ १७ ॥
(१०) फलितवृक्षः। फलितः फलवानेष फलिनश्च फली तथा । फलेग्रहिरवन्ध्यो यः स्यादमो. घफलोदयः ॥ १८॥
(११) अवकेशी । अथावकेशी वन्थ्योऽयं विफलो निष्फलोऽफलः ।
(१२) मूलम्। उक्तौ प्रागात्मना भिन्नौ वानस्पत्यवनस्पती । मूलं तु नेत्रं पादः स्यादख्रिश्चरणमित्यपि ॥ १९॥
(१३) उद्भेदः। उद्भेदस्त्वङ्कुरो ज्ञेयः प्ररोहोऽङ्कर इत्यपि ।
(१४) बुनः। अर्वाग्भागोऽस्य बुनः स्यान्नितम्बः स पृथुर्भवेत् ॥
(१५) आस्कन्धा। आस्कन्धा तु प्रकाण्डः स्यात्काण्डो दण्डश्च कथ्यते ॥ २० ॥
For Private and Personal Use Only