SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ [ भूम्यादिः परिशिष्टोअथ भूम्यादिर्दितीयो वर्गः (१) क्षारमृत्तिकातद्विशिष्टदेशमरुदेशनामानि । क्षारा मृदूषो देशस्तु तद्वानिरिणमूपरम् । खिलमप्रहतं प्राहुर्धन्वा तु मरुरुच्यते ॥१॥ (२) भूमिभेदाः। मरुपायस्तु यो देशः स चोक्तो जाङ्गलाभिधः। कृष्णमृत्कृष्णभूमिः स्यात्पाण्डुभूमिस्तु पाण्डुमृत् ॥ २॥ स शार्करः शर्करिलो देशो यः शर्करान्वितः । सैकतः स्यात्सिकतिलः सिकतावांश्च यो भवेत् ॥ ३ ॥ देशो जनपदो नीद्विषयश्चोपवर्तनम् । प्रदेशः स्थानमाख्या भूरवकाशः स्थितिः पदम् ॥ ४॥ नद्यम्बु तो धान्यैर्नदीमातृक उच्यते । वृष्ट्यम्बुजैस्तु तैरेष देशः स्याद्देवमातृकः ॥ ५॥ नदीदृष्टिजलोद्भूतैर्नानाधान्यैः समावृतः । देशो द्वयानुगमनात्स द्वैमातृक उच्यते ॥ ६ ॥ मुद्गादीनां क्षेत्रमुद्भूतिदं यत्तन्मौद्गीनं कौद्रवीणं तथाऽन्यत । हेयं स्याकि च शालेयमेवं बुद्ध्वाऽणव्यं चाऽऽणवीनं च विद्यात् ॥७॥ अथ माष्यं मापीणं भङ्ग्यं भाङ्गीनमुम्यमोमीनम् । तिल्यं तैलीनं स्यादिति षष्टिक्यं च यव्यं च ॥८॥ शाकादेर्यत्र निष्पत्तिरेतत्स्याच्छाकशाकटम् । शाकशाकिनमित्येतत्तथा वास्तुकशाकटम् ॥ ९॥ (३) कटकशृङ्गदरीगुहाः। मध्यमोऽस्य नितम्बः स्यात्कटक मेखला च सा । तटेऽतटः प्रपातश्च प्रस्थे स्नुः सानुसानुनी ॥ १० ॥ शृङ्गं तु शिखरं कूटं कन्दरे कन्दरा दरी। बिलं गुहा शिलासंधिर्देवखातं च गह्वरम् ॥ ११॥ (४) प्रत्यन्तगिर्याकरधातुलोहानि । प्रत्यन्तगिरयः पादा गण्डशैलाश्युतोपलाः । आकरः खनिरित्युक्तो धातवो गैरिकादयः ॥ १२ ॥ ग्रावा प्रस्तरपाषाणौ दृषदश्मोपलः शिला । लोहानि विविधानि स्युरश्मसारादिसंज्ञया ॥ १३ ॥ (५) काननम् । ___ काननं गहनं सत्रं कान्तारं विपिनं वनम् । अरण्यमटवी दावो दवश्व वनवाचकाः॥१४॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy