________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [मिश्रकादि:तभूतनुत्केवलं च खलु पुष्पहृत्स्त्रियाः । स्निग्धमुष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते ॥ १२५ ॥
दोषाः-हरति च हरितालं सौष्ठवं देहजातं सृजति च बहुतापं मेहकृच्छ्राश्मपीडाम् । वितरति कफवातं चाऽऽयुषोऽन्तं करोति त्वमृतमिह समस्तान्दुष्टरोगान्करोति ॥ १२६ ॥ तापस्फोटाङ्गसंकोचकफमारुतमेहकृत् । अशुद्धस्तालकः शुद्धो भूतहा रोगहाऽमृतम् ॥ १२७ ॥
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःहरितालं गोदन्तं पीतं नटमण्डनं च गौरं च । चित्राङ्गं पिञ्जरकं भवेदलं तालकं च तालं च ॥ ५८ ॥ कनकरसं काञ्चनकं विडालकं चैव चित्रगन्धं च । पिङ्गं च पिङ्गसारं गौरीललितं च सप्तदशसंज्ञम् ॥ ५९॥
गुणाः-हरितालं कटूष्णं च स्निग्धं त्वग्दोषनाशनम् । भूतभ्रान्तिप्रशमनं विषवातरुजार्तिजित् ॥ ६०॥
*अमृतम् (विषविशेषः ) ॥३॥ * अमृतं स्याद्वत्सनाभो विषमुग्रं महौषधम् । * गरलं मरणं नागं स्तोककं प्राणहारकम् ॥ १२८ ॥ * गरलं स्थावरादि स्यात्प्रोक्तं चैकादशाह्वयम् ।
गुणाः-* वत्सनाभोऽतिमधुरः सोष्णो वातकफापहः । * कण्ठरुक्सं निपातनः पित्तसंशोधनोऽपि च ॥ १२९ ॥
राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्गः-- *। * ॥ ६१॥ *। गुणाः--*। * ॥ ६२॥
(६९) 'उपविषाणि । ग्रन्थान्तरे–अर्कक्षीरं स्नुहीक्षीरं लागली करवीरकः । गुञ्जाऽहिफेनो धत्तूरः सप्तोपविपजातयः ॥ १३० ॥ अन्यच्च-स्नुह्यर्कलाङ्गली गुञ्जा हयारिविषमु
* अमतशोधनम्-गोमत्रे त्रिदिनं स्थाप्यं विषं तेन विशध्यति । रक्तसर्षपतैलाक्ते तथा धार्य च वाससि ॥ अन्यच्च-खण्डीकृत्य विषं वस्त्रपरिबद्धं तु दोलया । अजापयसि संस्विन्नं यामतः शुद्धिमाप्नुयात् ॥ विषग्रन्थि मले न्यस्य माहिषे दृढमुद्रितम् । करीषाग्नौ पचेद्यामं वस्त्रपूतं विषं शुचि ॥ अन्यच्च-कणशो वत्सनाभं च कृत्वा बद्ध्वा च पर्पटम् । दोलायन्त्रे जलक्षीरे प्रहराच्छुद्धिमृच्छति ॥ ३ ॥ अजादुग्धे भावितस्तु गव्यक्षीरेण शोधयेत्।
| उपविषशोधनम् पञ्चगव्येषु शुद्धानि देयान्युपविषाणि च । विषाभावे प्रयोगेषु गुणास्तु विषसंभवाः ॥
* विषमुष्टिका ( अश्विनी ) 'काजरा' 'कुचला' इति ख्याते ।
For Private and Personal Use Only