SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः] राजनिघण्टुसहितः। शृङ्गी च कालकूटश्च मुस्तको वत्सनाभकः । सक्तुकश्चेति योगोऽयं महापञ्चविषाभिधः ॥५३॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःविषमाहेयममृतं गरलं दारदं गरम् । कालकूटं कालकूटे हरिद्रं रक्तशृङ्गकम् ॥५४॥ नीलं च गैरदं क्ष्वेडो घोरं हालाहलं हेरम् । मॅरं हालाहलं शृङ्गी भूगरं चैकविंशतिः ॥ ५५ ॥ स्थावरे विषजातीनां श्रेष्ठौ नागोग्रशृङ्गको । नागो देहकरे श्रेष्ठो लोहे चैवोग्रशृङ्गकः ॥ ५६ ॥ विषस्याष्टादशभिदाश्चतुर्व र्णाश्च यत्पृथक् । तदत्र नोक्तमस्माभिग्रन्थगौरवभीरुभिः ॥ ५७॥ गौरपाषाणकः ( शौक्लिकेयः ) (विषविशेषः ) ॥ १॥ ग्रन्थान्तरे—गौरपापाणकः प्रोक्तो द्विविधः श्वेतरक्तकः। श्वेतः शङ्खसयक्तो दाडिमाभः प्रकीर्तितः ॥११७ ॥ श्वेतः कृत्रिमकः प्रोक्तो रक्तः पर्वतसंभवः । विपकृत्यपरौ तौ हि रसकर्मणि पूजितौ ॥ ११८ ॥ 'हरितालम्। (विषविशेषः)॥२॥ हरितालं च गोदन्तं पीतकं नटमण्डकम् । अलं विडालं गौरं च पिञ्जरं चित्रगन्धकम् ।। ११९ ॥ अन्यच्च-हरितालं तु तालं स्यादालं तालकमित्यपि । हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ।। १२० ॥ तयोरायं गुणैः श्रेष्ठं ततो हीनगुणं परम् । स्वर्णवर्ण गुरु स्निग्धं सपत्रं चाऽऽम्रपत्रवत । पत्राख्यं तालकं विद्याद्गुणाढ्यं तद्रसायनम् ॥ १२१ ॥ निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु । स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम् ॥ १२२ ॥ ____ गुणाः-हरितालं कटूष्णं च स्निग्धं कुष्ठोपघातकम् । विपकण्डूमतहरं सुभगं केशहृत्परम् ॥ १२३ ॥ स्निग्धं कपायं कटुकं हरितालं विषवणान् । कुष्ठकण्डूभूतवातान्हन्ति सौभाग्यदायकम् ॥ १२४ ॥ अन्यच्च-श्लेष्मरक्तविषवा हरितालशोधनम्-स्विन्नं कृष्माण्डतोये वा तिलक्षारजलेऽपि वा । तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति ॥ हरितालसत्त्वपातनम्-वलिनाऽऽलिप्य यत्नेन त्रिवार परिशोष्य च । द्राविते त्रिफलाताने क्षिपेत्तालकपोटलीम् ॥ भस्मना छादयेच्छीघ्रं ताम्रणाऽऽवेष्टितं सितम् । मृदुलं सत्त्वमादाय दद्या. त्प्रोक्तं रसायनम् ॥ हरितालमारणम-तालं विचूर्णयेत्सृक्ष्मं मद्य नागार्जुनीद्रवैः । सहदेव्या बलायाश्च मर्दयेद्दिवसत्रयम् ॥ तत्तालरोटकं कृत्वा छायायां च विशोषयेत् । हण्डिकायन्त्रमध्यस्थं पलाशभस्मकोपरि ।। पाच्यं च वालुकायत्रे निहितं चण्डवहिना । स्वाङ्गशीतं समुद्धृत्य सर्वरोगेषु योजयेत् ॥ १ ज. ट. गरलं । २ ज, गरम् । ट. दरम् । ३ ज. ट गरं । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy