________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१४
धन्वन्तरीयनिघण्टुः
[ मिश्रकादि : -
कालकूटं वत्सनाभः शृङ्गकच प्रदीपनः । हालाहलो ब्रह्मपुत्रो हारिद्रः सितकस्तथा ॥ १०० ॥ सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव ।
-
Acharya Shri Kailassagarsuri Gyanmandir
वर्ज्यविषाणि-कालकूटस्तथा मेषशृङ्गी दर्दुरकस्तथा । हालाहलय कटो ग्रन्थिहारिद्रकस्तथा ॥ १०१ ॥ रक्तशृङ्गी केसरच यमदंश्व पण्डितैः । त्याज्यानीमानि योगेषु विषाणि दश तत्त्वतः ॥ १०२ ॥
कालकूटस्वरूपम् — देवासुररणे देवैर्हतस्य पृथुमालिनः । दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसंनिभः ॥ १०३ ॥ निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्तितः । सोऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत् ॥ १०४ ॥
वत्सनाभस्वरूपम् — सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा । यत्पार्श्वेन तरोर्वृद्धिर्वत्सनाभः स भाषितः ।। १०५ ||
शृङ्गकस्वरूपम् – यस्मिन्गोशृङ्गके बद्धे दुग्धं भवति लोहितम् । स शृङ्गक इति प्रोक्तो द्रव्यतत्त्वविशारदैः ॥ १०६ ॥
प्रदीप स्वरूपम् - वर्णतो लोहितो यः स्याद्दीप्तिमान्दहनप्रभः । महादाहकरः पूर्वैः कथितः स प्रदीपनः ।। १०७ ।।
हालाहलस्वरूपम् — गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा । तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः || १०८ || असौ हालाहलो ज्ञेयः किष्किन्धायां हिमालये । दक्षिणान्धितटे देशे कोङ्कणेऽपि च जायते ।। १०९ ।।
ब्रह्मपुत्रस्वरूपम् - वर्णतः कपिलो यः स्यात्तथा भवति सारतः । ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले ।। ११० ।।
हारिद्रवरूपम् — हरिद्रातुल्यमूलो यो हारिद्रः स उदाहृतः । सक्तुकस्वरूपम्—यग्रन्थिः सक्तुकेनेव पूर्णमध्यः स सक्तकः ।। १११ ॥ सौराष्ट्रकवरूपम् — सुराष्ट्रविषये यः स्यात्स सौराष्ट्रिक उच्यते । जङ्गमविषाणि – दृष्टिनिःश्वासदंष्ट्राश्च नखमूत्रमलानि च ॥ ११२ ॥ शुक्रं लाला नखस्पर्शः सदंशं स्रावमर्दितम् । गुदास्थिपित्तशुक्राणि दश पजङ्गमाश्रयाः ।। ९२ ।।
गुणाः - विपं प्राणहरं प्रोक्तं व्यवायि च विकासि च । आग्नेयं वातकफहवाहि मदाम् ।। ११४ || स्थावरं जङ्गमं वाऽपि विषं जग्धं भिषग्वर । शीघ्रं दद्याsari गुर्वीं प्रोक्तं च नरसत्तमैः ॥ ११५ ॥ तदेव युक्तियुक्तं तु प्राणदायि रसायनम् । योगवाहि परं वातश्लेष्मजित्संनिपातहृत् ।। ११६ ॥ राजनिघण्टी मिश्रकादिद्वाविंशी वर्गः
t
सक्तुकः कचित्पुस्तके ' शौक्लिकेयः' इति वर्तते ।
For Private and Personal Use Only