________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१३
७ सप्तमो वर्गः ] राजनिघण्टुसहितः।
(६५) साधारणरसाः। कम्पिल्लश्चपलो गौरीपाषाणो नवसागरः । कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुलौ ॥ ९४ ॥ बोदारशृङ्गमित्यष्टौ साधारणरसाः स्मृताः ।
(६६)धातवः। तारं तानं पित्तलं नागहेमं वङ्गं तीक्ष्णं कांस्यक किट्टलोहम् । सूर्यादीनां नामभिः खेचराणां विज्ञातव्या धातवोऽनुक्रमेण ॥ ९५ ॥
(६७) पञ्च रत्नानि । पद्मनागेन्द्रनीलाख्यौ तथा मरकतः शुभः। पुष्परागश्च वज्राख्यः पञ्च रत्नवराः स्मृताः ॥ ९६ ॥
(६८) 'विषम् । ग्रन्थान्तरे--विपं च गरलं क्ष्वेडं कालकुटं च नामतः । अष्टादशविधं ज्ञेयं विपं कन्दभवं बुधैः ॥ ९७ ॥
विषभेदाः-*स्थावरं 'जङ्गमं चैव द्विविधं विषमुच्यते । दशाधिष्ठानमायं तु द्वितीयं षोडशाह्वयम् ।। ९८ ॥ मूलं पत्रं फलं पुष्पं त्वक्षीरं सार एव च । निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ॥ ९९ ॥ तथा च--
___ * साधारणरसानां शोधनम्-साधारणरसाः सर्वे मातुलिङ्गाकाम्बुना । त्रिदिनं भाविताः शुष्का भवेयुर्दोपवर्जिताः ॥
अन्यच्च-कङ्कण्ठं गौरकं शङ्खः कासीसं टङ्कणं तथा । नीला अनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः ।। जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणा । शुद्धिमायान्त्यमी योज्या भिषग्नियोगसिद्धये ॥
- हारीते---शृङ्गिको वत्सनागश्च तथा वै शाह्नवैरिकः । दारकः कालकूटश्च शङ्खः स्यात्सत्सुकन्दुकः ॥ हालाहलश्चाष्टमश्च तथाऽटौ विषजातयः । विपलक्षणानि-शङ्गिकः कृष्णवर्णश्च वत्सनागश्च पीतकः । शुण्ठीसमानवर्णश्च शाङ्गवेरः स उच्यते ॥ दारको हरिवर्णश्च कालकूटो मधुप्रभः । शङ्खश्चातिविषाभासः पीताभः सत्सुकन्दुकः ॥ हालाहल: कृष्णवर्णश्चाष्टौ च जातयस्तथा । ___ * स्थावरविषाणि वाचस्पती-मूलविषम् -करवीरादि । 'पत्रविषम् '--विषपत्रिकादि । फलविषम् --ककोटकादि । पुष्पविषम् - वेत्रादि । त्वक्सारनिर्यासविषाणि-करम्भादीनि । क्षाराविषम्-स्नुह्यादि । धातुविषम् -हरितालादि । कन्दविषम् -वत्सनाभसत्तु कादि, इति । ___जिङ्गमविपाणि-दृष्टिनिःश्वासविषा:-दिव्याः सर्पाः। दंष्ट्राविषाः-भौमसर्पाः । दंष्ट्रानखविषाः-- व्याघ्रादयः। मत्रपुरीषविषाः-गृहगोधिकादयः । शुक्रविषा:- मषिकादयः । लालाविषा:-उच्चटिकादयः । लालास्पर्शमत्रपुरीषार्तवशुक्रमुखसंदंशदंष्ट्रास्पर्शावमदितगुदपुरीषविषा:-चित्रशीर्षादयः । अस्थिविषाः-सदियः । पित्तविषा:-शकुलमत्स्यादय. — शक्विणः-भ्रमरादयः- इति ।
For Private and Personal Use Only