________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[ मिश्रकादिः(६०) सप्त धातवः। स्वर्ण रूप्यं च तानं च रङ्गं यशदमेव च । सीसं लोहं च सप्तैते धातवो गिरिसंभवाः ॥ ८७॥
(६१) उपधातवः। सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम् । तुत्थं कांस्यं च रीतिश्च सिन्दूरश्च शिलाजतु ॥ ८८ ॥
(६२) नव रत्नानि। रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च । इन्द्रनीलश्च गोमेदस्तथा वैडूर्यमित्यपि ॥ ८९ ॥ अन्यच्च-मुक्ताफलं हीरकं च वैडूर्य पद्मरागकम् । पुष्परागं च गोमेदं नीलं गारुत्मतं तथा ॥९०॥ प्रवालयुक्तान्येतानि महारत्नानि वै नव ।
(६३) उपरत्नानि । उपरत्नानि काचश्च कर्पूराश्मा तथैव च । मुक्ता शुक्तिस्तथा शङ्ख इत्यादीनि बहून्यपि ॥ ९१ ॥
(६४ ) उपरसाः। गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोञ्जनं टङ्कणं राजावर्तकचुम्बकौ स्फटिकया शङ्खः खटी गैरिकम् । कासीसं रसके कपर्दसिकताबोलाश्च कङ्कुष्टकं सौराष्ट्री च मता अमी उपरसाः सूतस्य किंचिद्गुणैः ॥ ९२ ॥ अन्यच्च-गन्धाश्मगैरकासीसकाङ्क्षी तालाशिलाञ्जनम् । कङ्कुष्ठं चेत्युपरसाश्चाष्टौ पारदकर्मणि
* रङ्गम्= ' कथिल ' इति प्रसिद्धम् । + यशदम्='जस्त' 'जसत'-इति प्रसिद्धम् ।
+ ' धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥
उपरसानां शुद्धिः-सर्यावतों वज्रकन्दः कदली देवदालिका । शिग्रुः कोशातकी वन्ध्या काकमाची च वालकम् ।। एषामेकरसेनेव त्रिक्षारैलवणैः सह । भावयेदम्लवगैश्च दिनमेकं प्रयत्नतः ॥ ततः पचेच्च तावेदोलायन्त्रे दिनं सुधीः । एवं शुष्यन्ति ते सर्वे प्रोक्ता उपरसा हि ये ।।
For Private and Personal Use Only