________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सप्तमो वर्गः] राजनिघण्टुसहितः।
राजनिघण्टौ रोगादिर्विंशतितमो वर्गः-- अगदो नीरुजो नीरुग्निरातङ्कश्च कथ्यते ॥ ४५ ॥
(५७) रोगिनामानि । व्याधितो विकृतो ग्लास्नुग्लानो मन्दस्तथाऽऽतुरः। अभ्यान्तोऽभ्यमितो रुग्णवाऽऽमयावी च दुःसही ॥ ८३ ॥
राजनिघण्टौ रोगादिविंशतितमो वर्गःव्याधितो विकृतो ग्लास्नुपर्लानो मन्दस्तथाऽऽतुरः । अभ्यान्तोऽभ्यमितो रुग्णश्वाऽऽमयाव्यपटुश्च सः ॥ ४६॥
(५८) वैद्यः। * वैद्यः श्रेष्ठोऽगदंकारी रोगहारी भिपग्विधः। * रोगज्ञो जीवनो विद्वानायुर्वेदी चिकित्सकः ॥ ८४ ।।
राजनिघण्टौ रोगादिविंशतितमो वर्ग:**॥४७॥ विप्रा वैद्यकपारगः शुचिरनूचानः कुलीनः कृती धीरः कालकलाविदास्तिकमतिर्दक्षः सुधीर्धार्मिकः। स्वाचारः समदृग्दयालुरखलो यः सिद्धमत्रक्रमः शान्तः काममलोलुपः कृतयशा वैद्यः स विद्योतते ॥४८॥ पुमर्थाश्चत्वारः खलु करणसौख्यैकसुलभास्तदेतद्भषज्यानवरतनिषेवैकवशगम् । तदप्येकायत्तं फलदमगदंकारकृपया ततो लोके लोके न परमुपकत्रैवममुतः ॥ ४९ ॥ राजानो विजिगीपया निजभुजप्रक्रान्तमोजोदयाच्छौर्य संगररङ्गसद्मनि यथा संविभ्रने संगताः। यस्मिन्नौषधयस्तथा समुदिताः सिध्यन्ति वीर्याधिका विप्रोऽसौ भिषगुच्यते स्वयमिति श्रुत्याऽपि सत्यापितम् ॥ ५० ॥
(५९) आहारः। * अन्नं जीवनमाहारः करं कशिपुरोदनम् । * अन्धो भिस्साऽदनं भोज्यमनाद्यमशनं तथा ॥ ८५ ॥ * आहारभेदाः---भोज्यं पेयं तथा चोष्यं लेह्य खाद्यं च चर्वणम् । * निप्पेयं चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् ॥ ८६ ॥
राजनिघण्टौ रोगादिविंशतिनो वर्गः*। * ॥ ५१ ॥ *। * ॥५२॥
For Private and Personal Use Only