________________
Shri Mahavir Jain Aradhana Kendra
७ सप्तमो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
(४७) क्षारषट्कम् । कृष्णतिलजपालाश वचापामार्गजस्तथा । कुटजो मुष्कजचैव क्षारपट्कं
विनिर्दिशेत् ।। ७० ।।
Acharya Shri Kailassagarsuri Gyanmandir
३०९
राजनिघण्टौ मिश्रकादिविंशो वर्ग:
--
धवापामार्ग कुटजलाङ्गली तिलमुष्कजैः । क्षारैरेतैस्तु मिलितैः क्षारपट्कमुदाहृतम् ॥ ३७ ॥
(४८) त्रिमधुरम् | ( मधुरत्रयम्)
घृतं सिता माक्षिकं च विज्ञेयं मधुरत्रयम् । विद्यात्रिमधुरं चैव प्रोक्तं च मधुरत्रिकम् ।। ७१ ।।
राजनिघण्टौ मिश्रकादिद्वविंशो वर्ग:
सितामाक्षिकसपपि मिलितानि यदा तदा । मधुरत्रयमाख्यातं त्रिमधु स्यान्मधुत्रयम् ।। ३८ ।।
( ४९ ) षड्रसाः ।
कटुतिक्तकपायाथ लवणोऽम्लश्च पञ्चमः । मधुरेण समायुक्ताः पट्टसाः समुदाहृताः ॥ ७१ ॥
राजनिघण्टौ रोगादिविंशतितमो वर्गः
मधुरो लवणस्तिक्तः कपायोऽम्लः कटुस्तथा । सन्तीति रसनीयत्वादन्नाद्ये पडमी रसाः || ३९ ॥
(५०) द्वितीय मूत्राष्टकम् |
महिषाजाविगोश्वानां खराणामुष्ट्रहस्तिनाम् । मूत्राष्टकमिति ख्यातं सर्वशास्त्रेषु संमतम् ॥ ७३ ॥
For Private and Personal Use Only
(५१ ) पञ्चमूलकपञ्चकम् ।
विल्वोऽग्निमन्थः स्योनाक: काश्मर्यत्वक पाटला । वला पुनर्नवैरण्ड: शूर्पपर्णीयं तथा ॥ ७४ ॥ जीवकर्षभक मेढ़े जीवन्ती च शतावरी । शरेक्षुदर्भकाशानां शालीनां मूलमेव च ।। ७५ ।। गन्धो हर्षश्च दंष्ट्रा चव सौरभ्यं करमर्दिका । इत्यौषधैः समुद्दिष्टं पञ्चमूलकपञ्चकम् ॥ ७६ ॥
१ ङ. छ. तं गुडोऽथ माक्षीकं वि ।