________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
धन्वन्तरीयनिघण्टुः- [ मिश्रकादि:राजनिघण्टौ मिश्रकादिविंशो वर्गः-- *। * ॥ ३३॥
(४१) विदारिगन्धाब्यो गणः ( पञ्चगणः) *विदारिगन्धा बृहती पृश्निपी निदिग्धिका । *श्वदंष्ट्रा चेति संप्रोक्तो योगः पश्चगणाभिधः ॥ ६४ ॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३४॥
(४२) मूत्राष्टकम् । मूत्रं गोजाविमहिषीगजाश्वोष्ट्रखरोद्भवम् । सर्वमेकत्र संयुक्तं मूत्राष्टकमुदाहृतम्
(४३) क्षाराष्टकम् । अपामार्गपलाशार्कतिलमुष्कयवाग्रजम् । सर्जिकाटङ्कणयुतं क्षाराष्टकमुदाहृतम् ॥६६॥
(४४) लवणषट्कम् । सामुद्रसिन्धुरुचकं विडरोमकपांशुजम् । षडेते च समाख्याता लवणाः शास्त्रकोविदः ॥ ६७ ॥
(४५) त्रिलवणम् । सैन्धवं रुचकं चैव विडं च लवणत्रयम् । एतत्रिलवणं प्रोक्तं नामतत्त्वार्थकोविदः ॥ ६८ ॥
राजनिघण्टौ मिश्रकादिविंशो वर्ग:---- सैन्धवं च बिडं चैव रुचकं चेति मिश्रितम् । लवणत्रयमाख्यातं तच्च त्रिलवणं तथा ॥ ३५ ॥
(४६) क्षारत्रयम् । *सजिक्षारं यवक्षारं टङ्कणक्षारमेव च । क्षारत्रयं समाख्यातं त्रिक्षारं च प्रकीर्तितम् ॥ ६९॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३६॥
१ ञ. 'लपुष्पय ।
For Private and Personal Use Only