________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७ सप्तमो वर्गः ]
राजनिघण्टु सहितः ।
३०५
गुणाः -- यक्षकर्दम एवं स्याच्छीतस्त्वग्दोषच्च यः । सुगन्धिः कान्तिदचैव
शिरोर्तिविषनाशनः ॥ ४६ ॥
राजनिघण्टौ मिश्रकादिद्वविंशो वर्ग:
-
Acharya Shri Kailassagarsuri Gyanmandir
कुङ्कुमागरुकुरङ्गनाभिकाचन्द्रचन्दनसमांशसंभृतम् । त्र्यक्षपूजनपरैकगोचरं यक्षकर्दममिमं प्रचक्षते ॥ २० ॥
( २६ ) मन्थः ।
सक्तवः सर्पिषाऽभ्यक्ताः शीतोदकपरिप्लुताः । नातिद्रवा नातिसान्द्रा मन्थ इत्यभिधीयते ।। ४७ ।।
गुणाः - मन्थः पित्तहरो ज्ञेयो दाहारुचिविनाशनः । शीतं श्रमापशमने मूर्छादोषापहारकः ॥ ४८ ॥
(२७) संतर्पणम् ।
द्राक्षादाडिमखर्जूरैर्मर्दिताम् सशर्करम् । * लाजाचूर्ण समध्वाज्यं संतर्पणमुदाहृतम् ।। ४९ ।।
गुणाः - तर्पणं शीतलं पाने नेत्ररोगविनाशनम् । वल्यं रसायनं हृद्यं वीर्य - वृद्धिकरं परम् ।। ५० ।
राजन
मिश्रादिद्वविंशो वर्ग:
द्राक्षादाडिमखर्जूरकदलीशर्करान्वितम् । * ।। २१ ।
३९
( २८ ) पञ्चामृतम् । (दिव्यपञ्चामृतम् )
* गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितम् । एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परम् ॥ ५१ ॥
गुणाः - अजीर्णभूतवाधानं ज्ञेयं पञ्चामृतं परम् । राजनिघण्टौ मिश्रकादिद्वविंशो वर्गः
* । * ।। २२ ।
(२९) पञ्चगव्यम् ।
* गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च । समं योजितमेकत्र पञ्चगव्यमिति स्मृतम् ।। ५२ ।।
गुणाः पञ्चगव्यं देहशुद्धिकरं कफविनाशनम् । राजनिघण्टौ मिश्रकादिद्वविंशो वर्ग:
१. छ. 'तभ्रमा ।
For Private and Personal Use Only