________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४
धन्वन्तरीयनिघण्टुः- [मिश्रकादि:गुणाः-सर्वोषधी त्रिदोषनी मूत्रदाहापहा मता । रसायन्यर्शःपित्तनी मुखरोगविनाशिनी ॥ ३९॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः-- कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः । मुराकरमुस्ताभिः सर्वोषधमुदाहृतम् ॥ १७ ॥
(२१) सुगन्धामलकम् । * सौंषधिकसंयुक्ताः शुष्काचाऽऽमलकत्वचः । सुगन्धामलकं ह्येतनिर्दिशन्ति विचक्षणाः ॥ ४०॥
गुणाः-सुगन्धामलकं वृष्यं पवित्रं मूत्रदोषनुत् । योनिदोषप्रशमनं हन्ति दोषत्रयं तथा ॥ ४१॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः-- * । यदा तदाऽयं योगः स्यात्सुगन्धामलकाभिधः ॥१८॥
(२२) सुगन्धपञ्चकम् (पञ्चसुगन्धिकम् ) कोलकं पूगफलं लवङ्गकुसुमानि च । जातीफलानि कर्पूरमेतत्पश्चसुगन्धिकम् ॥ ४२॥
गुणाः–पञ्चसुगन्धिकं शीतं रक्तपित्तविनाशनम् । हन्त्याशु मुखवैगन्ध्य पीनसं च कफास्रजित् ॥ ४३ ॥
राजनिघण्टौ मिश्रकादिविंशो वर्गःकर्पूरकङ्कोललवङ्गपुष्पगुवाकजातीफलपश्चकेन । समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात् ॥ १९ ॥
(२३) परार्धम् । चन्दनं कुसुमं तुल्यं परार्धमभिधीयते ।
(२४) वाट्यपुष्पकम् । त्रिभागर्कुसुमं यच्च तदुक्तं वाठ्यपुष्पकम् ॥ ४४ ॥
(२५) यक्षकर्दमः । कुश्मागरुकर्पूरकस्तूरीचन्दनानि च । महासुगन्ध इत्युक्तो नामतो यक्षकदमः॥४५॥
१ ग. ण. कुङ्कुमं । २ झ. ण. कुङ्कुम ।
For Private and Personal Use Only