SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः] राजनिघण्टुसहितः। ३०३ (१७) वेसवारम् । शुण्ठीमरीचपिप्पल्या धान्यकाजाजिदाडिमम् । पिप्पलीमूलसंयुक्तं वेसवारमिति स्मृतम् ॥ ३०॥ गुणाः-वेसवारो भवेत्तीक्ष्णः सोऽग्नेर्वीर्यस्य वर्धकः। राजनिघण्टौ मिश्रकादिविंशो वर्गःअजाजी मरिचं शुण्ठी ग्रन्थिधान्यं निशाह्वयम् । पिप्पली मरिचं चेति वेसवारगणो मतः ॥ १५॥ (१८) संभारः। कासमर्दकपत्राणां कृतं चूर्णमुलूखले । वेसवारसमायुक्तं सप्ताहं भाजने स्थितम् ॥ ३१ ॥ ततो हिङ्गुरसाक्तेन मिश्रितास्तेन ते तथा । दिवाकरकरैः शोष्या वटकाः कासमर्दकाः ॥ ३२ ॥ शार्कव्यञ्जनमांसानां संभार इति ते मताः । गुणाः–अनेन संयुताः पाका वह्निवीर्यबलप्रदाः ॥ ३३ ॥ (१९) शिखरिणी। दन्नः पलानि द्वात्रिंशत्त्वगेलार्धपलं तथा । मध्वाज्यस्य पलार्धाध मरिचैलापलार्धकम् ॥ ३४ ॥ पलान्यष्टौ च खण्डस्य पटे शुक्ले च गालयेत् । कर्पूरवासिते भाण्डे छायायां स्थापयेदिह ॥ ३५ ॥ गुणाः-एषा शिखरिणीत्युक्ता वृष्या दीप्तिविवर्धिनी । सदा पथ्या नियुद्धाध्वक्षीणदेहेषु पुष्टिदा ॥ ३६ ॥ आयुष्पवर्धिनी चैव सर्वरोगप्रमर्दिनी । सा स्याद्रुचिस्थैर्यकरी नराणां सर्वदा हिता ॥ ३७ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्ग:द्वात्रिंशत्पलसंमितं दधि पलान्यष्टौ च खण्डं पलस्याध चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाद्वयम् । मध्वाज्यं च पैंटे तदर्धमिलितं संशोधितैोजिता भाण्डे स्याद्धिमवासिते शिखरिणी श्रीकण्ठभोग्या गुणैः ॥ १६ ॥ (२०) सौषधिकम् । कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकाः । वचाकर्पूरमुस्ताश्च सर्वोषधिकमुच्यते ॥ ३८ ॥ १ज.न तद्विधिः । दि। २ झ. ण. त. 'कस्य व्यञ्जनानां च सं । ३ ज. ट. युतं । ४ ज. 2. ढ. 'लितः सं। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy