SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ मिश्रकादि:(१३) महापञ्चमूलदशमूले । विलोऽग्निमन्थः स्योनाकः काश्मयः पाटला तथा । ज्ञेयं महापञ्चमूलं दशमूलमुभे स्मृतम् ।। २१ ॥ अन्यच्च-शालिपर्णीपृश्निपर्णीबृहतीद्वयगोक्षुरैः । बिल्वाग्निमन्थस्योनाककाश्मरीपाटलायुतैः ॥ २२ ॥ दशमूलमिति ख्यातं संनिपातहरो गणः। गुणाः-प्रायस्त्रिदोषशमनं पवनामयेषु श्लेष्मोल्बणेषु च गदेषु भिषभिरुक्तम् । हिक्कासु संनिपतितेषु शिरोरुजायां श्वासे हितं च कसने दशमूलमेतम् ॥२३॥ उभयं पञ्चमूलं तु संनिपातज्वरापहम् । कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ॥ २४ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्ग:बिल्लोऽग्निमन्यः स्योनाकः पाटली तिन्दुकस्तथा । सर्वैस्तु मिलितैरतैः स्यान्महापञ्चमूलकम् ॥ १२॥ पञ्चमूलकयोरेतद्द्वयं च मिलितं यदा । तदा भिपरिभराख्यातं गुणाढ्यं दशमूलकम् ॥ १३ ॥ (१४) जीवनपञ्चमूलम् । अभीरुवी राजीवन्तीजीवकर्षभकैः स्मृतम् । गुणाः-जीवनाख्यं च चक्षुष्यं वृष्यं पित्तानिलापहम् ॥ २५ ॥ (१५) तृणपञ्चमूलम् । तृणाख्यं पित्तजिद्दर्भशरकाशेक्षुशालयः। एतैरेकीकृतं पञ्चमूलं तु तृणसंज्ञकम् ॥ २६॥ गुणाः-तृणादिपञ्चमूलं तु पित्तज्वरतृषापहम् । रक्तदोपाम्लपित्तं च स्त्रीरोग रक्तपित्तकम् ॥ २८ ॥ प्रमेहं नाशयेदेतदिति सुनिरूपितम् । (१६) जीवकादिगणः। . जीवकर्षभको मेदे काकोल्यौ द्वे च योजिते । द्वे सूर्पपण्यौ जीवन्ती मधुकं चेत्ययं गणः ॥ २७ ॥ गुणाः-नाम्ना मधुर इत्युक्तो जीवनीयो रसायनः । जीवनो जीवनीयश्च स्वादुमधुरकस्तथा ॥ २९ ॥ शुक्रदोषहरो बल्यो मूत्रदोषापहारकः । राजनिघण्टौ मिश्रकादिविंशो वर्गःस्याज्जीवकर्षभकयुग्मयुगद्विमेदाकाकोलिकाद्वययुतद्विकसूर्पपर्णा । जीव्या मधूकयुतया मधुराहयोऽयं योगो महानिह विराजति जीवकादिः॥ १४ ॥ १ ट. कः काश्मयः पाटली तथा । २ झ. 'रुमेदाजी । ३ ८. छ ‘ध्यं कफपि । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy