________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०० धन्वन्तरीयनिघण्टुः
[ मिश्रकादि:गुणाः-दीपनं रुचिदं वातश्लेष्ममन्दाग्निशूलनुत् ।
राजनिघण्टौ मिश्रकादिविंशो वर्गः* । त्रिकटु ब्यूषणं व्योषं कटुत्रयकटुत्रिकम् ॥ ४ ॥
(५) चातुर्भद्रकम् । * नागराऽतिविषा मुस्ता त्रयमेतच्च कार्षिकम् । ॐ गुडूचीसंयुतं चैव चातुर्भद्रकमुच्यते ॥ ७॥
गुणाः-ज्वरनं पाचनं प्रोक्तं त्रिदोषशमनं स्मृतम् । जीर्णज्वरारोचकनं कण्ठामयविनाशनम् ॥ ८॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥५॥
(६) द्वितीयं चातुर्भद्रकम् । * एलात्वपत्रकैस्तुल्यैर्मरिचेन समन्वितैः । * कटुपूर्वमिदं चान्यातुर्भद्रकमुच्यते ॥ ९॥
गुणाः-चातुर्भद्रं रुचिकरं पित्तलं चाग्निदीपनम् । रूक्षोष्णं च सुगन्धि स्यात्तीक्ष्णं वर्ण्य लघु स्मृतम् ॥ १० ॥
राजनिघण्टौ मिश्रकादिवाविंशो वर्गः*। * ॥ ६॥
__ (७) तृतीयं चातुर्भद्रकम् । * त्वगेलापत्रकैस्तुल्यैस्त्रिगन्धि च त्रिजातकम् । ॐ नागकेसरसंयुक्तं चातुर्जातकमुच्यते ॥ ११॥
गुणाः-स्वरभेदश्वासकासमुखदोपविनाशनम् । वृष्यं बल्यं च योगाई चातुर्जातं रसायनम् ॥ १२॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ७॥
(८) पञ्चकोलम् । * पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । * एकत्र मिश्रितैरेभिः पञ्चकोलकमुच्यते ॥ १३ ॥
१ ट. तत्रिका । २ झ. ण. 'तुर्जातक' ।
For Private and Personal Use Only