________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९९
[७ सप्तमो वर्गः] राजनिघण्टुसहितः।
अथ मिश्रकादिः सप्तमो वर्गः।
(१) त्रिफला। *हरीतकी चाऽऽमलकं विभीतकमिति त्रयम् । त्रिफला च वरा श्रेष्ठतम ज्ञेयं फलत्रिकम् ॥ १॥
गुणाः-त्रिफला च त्रिदोषनी दीपनी स्याद्रसायनी । वृष्या मेहहरा दीप्या नेत्ररोगहरा मता ॥२॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः* । त्रिफला त्रिफली चैव फलत्रयफलत्रिके ॥१॥
(२) स्वादुत्रिफला । द्राक्षाखर्जूरकाश्मर्यफलानीति फलत्रयम् । सैव स्वादुर्द्वितीया तु त्रिफला त्रैफला स्मृता ॥ ३ ॥ अन्यच्च-द्राक्षादाडिमखरं द्वितीयं च फलत्रयम् । गुणाः-चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ॥ ४॥
राजनिघण्टौ मिश्रकादिविंशो वर्ग:द्राक्षाकाश्मयखर्जूरीफलानि मिलितानि तु । मधुरत्रिफला ज्ञेया मधुरादिफलत्रयम् ॥२॥
(३) सुगन्धित्रिफला । जातीफलं तथैला च लवङ्गफलमेव च । सुगन्धित्रिफला प्रोक्ता तृतीयं तु फलत्रिकम् ॥५॥ गुणाः-संग्राहिमधुरा पाके कफवातविबन्धनुत् ।
राजनिघण्टौ मिश्रकादिविंशो वर्गःजातीफलं पूगफलं लवङ्गकलिकाफलम् । सुगन्धित्रिफला प्रोक्ता सुरभित्रिफला च सा ॥३॥
(४) त्रिकटुकम् ( कटुत्रयम् ) * पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितम् । त्रिकटु त्र्यूषणं व्योषं कटुत्रयमिहोच्यते ॥६॥
* ग्रन्थान्तरे-एका हरीतकी योज्या द्वौ च योज्यौ विभीतको । त्रीणि चाऽऽमलकान्याहुत्रिफलैषा प्रकीर्तिता ॥
१ झ. ण. त. 'ला फलमियुक्तं तच्च झें।
For Private and Personal Use Only