SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९५ ६ षष्ठो वर्गः] राजनिघण्टुसहितः। (२२) सारसः। सारसः सुस्वरश्चैव नीलाङ्गश्चित्रकन्धरः। रक्ततुण्डो रक्तनेत्रो रक्तपादोऽस्रवल्लभः ॥ ४७ ॥ सारसी तस्य रामा च लक्ष्मणा लक्षणाकृतिः ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:सारसो रसिकः कामी नीलाङ्गो भणितारवः । नीलकण्ठो रक्तनेत्रः काकवाकामिवल्लभः ॥ २२ ॥ (२३) तित्तिरिः । तित्तिरिस्तित्तिरश्चैव कृष्णो गौरः कपिञ्जलः ॥४८॥ गुणाः—तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः। हिक्काश्चासानिलहरो विशेषागौरतित्तिरः॥ ४९ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःतित्तिरिस्तित्तिरश्चैव तैत्तिरो याजुषो गिरिः । कृष्णोऽन्यस्तित्तिरिः शूरः सुभूतिः परिपालकः॥ २३ ॥ गुणाः-स्निग्धं तित्तिरजं मांसं लघु वीर्यबलप्रदम् । कषायं मधुरं शीतं त्रिदोषशमनं परम् ॥ २४॥ (२४) चटकः। चटकः कलविङ्कस्तु कार्मुको नीलकण्ठकः। मधुरोऽन्योऽतिसूक्ष्मः स्याचटको धान्यभक्षणः ॥ ५० ॥ गृहकाऽक्षमो भीरुः कृषिद्विष्टः कणप्रियः। गुणाः-व्यवायी संनिपातनः कलविङ्कः कफापहः ॥५१ ॥ तित्तिरादिविशेषगुणाः-लावतित्तिरवर्तश्च कलविङ्कः कपिञ्जलः । विष्किराः शिखिचक्राह्वचकोरकुररादयः ॥५२॥ कषायाः स्वादवः शीता लघवो दोषनाशनाः।कपायो मधुरस्तेषां संनिपातहरो लघुः॥५३॥ मेधाग्निवर्धनो दृष्यो ग्राही वर्णप्रसादकृत् । वर्तिरः कटुकः पाके कषायो वातजिल्लघुः ॥५४॥ कपिञ्जलो लघुः शीतो रक्तपित्तकफापहः। लघुर्बल्योऽग्निकृन्मेध्यः कुररो वातपित्तहा ॥५५॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:चटका कलविकी स्याचाटकैरस्तु तत्सुतः । धूसरोऽरण्यचटकः कुजो भूमिशयी च सः॥२५॥ भारीटः श्यामचटकः शैशिरः कणभक्षकः।धूसरोऽन्योऽतिसूक्ष्मः स्याचटको धान्यभक्षकः । गृहकृत्यक्षमो भीरुः कृपिद्विष्टः कणप्रियः ॥२६॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग: For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy