________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःगुणाः--अमृक्श्वासक्षयहरा गोधा मधुरशीतला ॥४०॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःगोधा तु गोधिका ज्ञेया दारुमत्स्याहया च सा । खरचर्मा पञ्चनखी पुलका दीर्घपुच्छिका ॥ १७ ॥
(१७) गौधेयः। गोधाजः स्यात्तु गौधेयो गौधारो गोधिकासुतः ॥ ४१ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःगौधारः स्यात्तु गौधेयो गौधेरो गोधिकासुतः ॥ १८ ॥
(१८) मक्षिका। मक्षिका मधुकृञ्चान्या सरघा मधुमक्षिका। पूतिका माक्षिका पूतिः क्षुद्राऽन्या क्षुद्रमक्षिका ॥ ४२ ॥ कृष्णा नीलाऽरुणा मक्षी कृमिमक्षी प्रकीर्तिता।
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःदंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका । मक्षिका त्वमृतोत्पन्ना वमनी चापला च सा ॥ १९ ॥
(१९) मशकः। मशको दंशको ग्राम्यः क्षुद्रदंशस्तु स स्मृतः। अन्यो दंशो वन्यदंशः पशुलोहितपः स्मृतः ॥ ४३ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःमशको वज्रतुण्डश्च सूच्यास्यः सूक्ष्ममक्षिका ॥ २० ॥
(२०) कोकडः। कोकडो जवनः प्रोक्तः काकवाचो बिलेशयः। ज्ञेयो मधुरवृत्तश्च रोमशो धूम्रवर्णकः ॥ ४४ ॥ रात्रिजागरदो धूम्रो नीलाभास्त्वन्यजातयः । अष्टाघिरष्टपादश्च गृहवासी च कृष्णकः ॥ ४५ ॥
(२१) पक्षी। पक्षी विहंगमः पत्री शकुन्तो विहगः खगः । अण्डजो विः पत्ररथः पतत्री शकुनी द्विजः ॥ ४६॥ तिर्यश्चो विषपत्री स्याद्विहंगः खेचरस्तथा।
राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:खगविहगविहंगमा विहंगः पिपतिषुपत्रिपतत्रिपत्रवाहाः । शकुनिशकुनविविकिराण्डजा विः पतगपतन्नमसंगमा नगौकाः॥ २१ ॥
For Private and Personal Use Only