________________
Shri Mahavir Jain Aradhana Kendra
६ षष्ठो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:
भोक्ता निष्कृष्याऽऽमिषं स प्रतूदः प्रोक्तो गृध्रश्येनकाकादिको यः । गुणाः -- मांसं तस्य स्वादु संतर्पणं च स्निग्धं बल्यं पित्तदाहास्रदायि || ३ || प्रसहाः –काको गृध उलूकच चिल्लव शशघातकः । चाषो भासश्व कुरर इत्याद्याः प्रसहाः स्मृताः ।। १४ ।। प्रसहाः कीर्तिता एते प्रसह्याऽऽच्छिद्य भक्षणात् ।
गुणाः - प्रसहाः खलु वीर्योष्णास्तन्मांसं भक्षयन्ति ये । विशोष भस्मकोन्मादशुक्रक्षीणा भवन्ति ते ॥ १५ ॥
ग्राम्याः – छागमेषवृषाश्वाश्वा ग्राम्याः प्रोक्ता महर्षिभिः । गुणाः - ग्राम्या वातहराः सर्वे दीपनाः कफपित्तलाः ॥ १६ ॥ कूलेचराः – लुलायगण्डवाराहचमरीवारणादयः । एते कूलचराः प्रोक्ता यतः कूले चरन्त्यपाम् ।। १७ ॥
गुणाः - कूलेचरा मरुत्पित्तहरा वृष्या बलावहाः । मधुरा शीतलाः स्निग्धाः शुक्राढ्याः श्लेष्मवर्धनाः ॥ १८ ॥
प्लवाः- हंससारसकारण्डबकक्रौञ्चशरारिकाः । नन्दीमुखी सकादम्बाः बलाकाद्याः प्लवाः स्मृताः ॥ १९ ॥ प्लवन्ति सलिले यस्मादेते तस्मात्प्लवाः स्मृताः ।
-
Acharya Shri Kailassagarsuri Gyanmandir
२८७
गुणाः - प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः । वात श्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥ २० ॥
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:--
सारसहंसबलाकाश्चक्रक्रौञ्चादयो जलप्लवनात् ।
गुणाः --- प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णबलदायि ॥ ४ ॥ कोशस्थाः—–शङ्खः शङ्खनखश्वापि शुक्तिशम्बूककर्कटाः । जीवा एवंविधाश्वान्ये कोशस्थाः परिकीर्तिताः ॥ २१ ॥
For Private and Personal Use Only
गुणाः - कोशस्था मधुराः स्निग्धाः वातपित्तहरा हिमाः । बृंहणा बहुवfear gora बलवर्धनाः ॥ २२ ॥
पादिनः – कुम्भीरकूर्मनक्राश्च गोधामकरसंज्ञिताः । घण्टिकः शिशुमार श्वेत्यादयः पादिनः स्मृताः ॥ ५२३ ॥
गुणाः - पादिनोऽपि च ये ते तु कोशस्थानां गुणैः समाः । सद्योहतमांसगुणाः सद्योहतं भवेन्मांसं व्याधिवारिविषापहम् । वयस्थामकृतं सात्म्यमन्यथा परिवर्जयेत् ॥ २४ ॥