________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
धन्वन्तरीयनिघण्टुः- [सुवर्णादि:जङ्घालाः-हरिगणकुरङ्गाश्च पृषतन्यङ्कुशम्बराः । राजीवोऽपि च मुण्डी चेत्याद्या जङ्घालसंज्ञकाः॥३॥
गुणाः-जङ्यालाः प्रायशः सर्वे पित्तश्लेष्महराः स्मृताः । किंचिदातकराथापि लघवो बलवर्धनाः ॥ ४ ॥ बिलेशयाः-गोधाशशभुजंगाखुशल्लकाद्या बिलेशयाः। गुणाः-बिलेशया वातहरा मधुरा रसपाकयोः । बृंहणा बद्धविण्मूत्रा वीर्योणाश्च प्रकीर्तिताः॥५॥
राजनिघण्टौ मांसादिः सप्तदशो वर्गःअहिनकुलशल्यगोधामूषकमुख्या विलेशयाः कथिताः । गुणाः-श्वासानिलकासहरं तन्मांसं पित्तदाहकरम् ॥ १॥
गुहाशयाः--सिंहव्याघ्रटका ऋक्षतरक्षुद्वीपिनस्तथा । बभ्रूजम्बूकमार्जारा इत्याद्याः स्युर्गुहाशयाः॥६॥
गुणाः गुहाशया वातहरा गुरूणा मधुराश्च ते । स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविकारिणाम् ॥ ७ ॥
पर्णमृगाः-चनौका वृक्षमार्जारो वृक्षमर्कटिकादयः । एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः ॥८॥ . गुणाः-स्मृताः पर्णमृगा वृष्याचक्षुष्याः शोषणे हिताः। श्वासार्शकासशमनाः सृष्टमूत्रपुरीषकाः ॥९॥
विष्किराः-वर्तका लाववर्तीरकपिञ्जलकतित्तिराः । कुलिङ्गकुक्कुटायाश्च विष्किराः समुदाहृताः ॥१०॥ विकीर्य भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः।
गुणाः-विष्किरा मधुराः शीताः कषायाः कटुपाकिनः । बल्या वृष्यात्रिदोषनाः पथ्यास्ते लघवः स्मृताः ॥११॥
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:भक्ष्याश्च कुक्कुटकपोतकतित्तिराद्याः क्षोणीं विलिख्य नखरैः खलु वर्तयन्ति । गुणाः-ते विष्किराः प्रकथिताः पिशितं तदीयं दृष्यं कषायमधुरं शिशिरं च रुच्यम् ॥२॥
प्रतुदाः-हरितो धवलः पाण्डुश्चित्रपक्षो बृहच्छुकः । पारावतः खञ्जरीटः पिकायाः प्रतुदाः स्मृताः ॥ १२ ॥ प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्तथा ।
गुणाः—प्रतुदा मधुरा पित्तकफनास्तु वरा हिमाः । लघवो बद्धवर्चस्काः किंचिद्वातकराः स्मृताः॥ १३ ॥
१ झ. ढ. 'हहर।
For Private and Personal Use Only