________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
धन्वन्तरीयनिघण्टुः- [सुवर्णादिःराजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःहस्तिमूत्रं तु तिक्तोष्णं लवणं वातभूतनुत् । तिक्तं कपायं शूलप्नं हिक्काश्चासहरं परम् ॥ ५०५॥
___ अश्वमूत्रम् (मूत्रविशेषः ) ॥ ८२ ॥ गुणाः—दीपनं कटु तिक्तोष्णं वातचेतोविकारनुत् ॥ आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ॥ ४९४ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःअश्वमूत्रं तु तिक्तोष्णं तीक्ष्णं च विषदोषजित् । वातप्रकोपशमनं पित्तकारि प्रदीपनम् ॥ ५०६ ॥
उष्ट्रमूत्रम् (मूत्रविशेषः) ॥३॥ गुणाः-*शोफकुष्ठोदरोन्मादमारुतकृमिनाशनम् । अर्शोघ्नं कारभं मूत्रं विजानीयाचिकित्सकः ॥ ४९५ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः
औष्ट्रकं कटु तिक्तोष्णं लवणं पित्तकोपनम् । बल्यं जठररोगन्नं वातदोषविनाशनम् ॥ ५०७॥
गर्दभमूत्रम् ( मूत्रविशेषः ) ॥ ८४ ॥ .. गुणाः-गरचेतोविकारनं तीक्ष्णं ग्रहणिरोगनुत् । दीपनं गार्दर्भ मूत्रं कृमिवातकफापहम् ॥ ४९६ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःखरमूत्रं कटूष्णं च क्षारं तीक्ष्णं कफापहम् । महावातापहं भूतकम्पोन्मादहरं परम् ।। ४९८ ॥
मानुषमूत्रम् ( मूत्रविशेषः)॥ ८५ ॥ गुणाः-पिसरक्तकृमिहरं रोचनं कफवातजित् । तिक्तं मोहहरं मूत्रं मानुषं तु विषापहम् ॥ ४९७ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः--
* एतच्छ्लोकस्थाने ङ. छ. ण. त. पुस्तके --- 'औष्ट्रं कुष्ठोदरोन्मादशोफार्शःकृमिवातनुत् । गरचेतोविकारघ्नं तीक्ष्णं जठररोगनुत्' इति श्लोको दृश्यते ।
१ ङ, तीक्ष्णोष्णं।
For Private and Personal Use Only