________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः] राजनिघण्टुसहितः ।
२८३ गुणाः-गोमूत्रं कटुतिक्तोष्णं सक्षारं लेखनं सरम् । लध्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥ ४८९ ॥ गोपेषु गव्यं मूत्रं प्रयोजयेत् ।
राजनिघण्टौ क्षीरा५ि. या TI... गोमूत्रं गोजलं गोम्भो गोनिष्यन्दश्च गोद्रवः । गुणाः-गोमूत्रं कटु तिक्तोष्णं कफवातहरं लघु । पित्तकृद्दीपनं मेध्यं त्वग्दोपघ्नं मतिप्रदम् ॥ ५०१॥
अजामूत्रम् (मूत्रविशेषः) ॥७८ ॥ गुणाः-कासवासापहं शोफकामलापाण्डुरोगनुत् । कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ॥ ४९० ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:अजामूत्र कटूष्णं च रूक्षं नाडीविषार्तिजित् । प्लीहोदरकफश्वासगुल्मशोफहरं लघु ॥५०२॥
मेषीमूत्रम् (मूत्रविशेषः ) ॥ ७९ ॥ गुणाः-कासप्लीहोदरश्वासशोषव!ग्रहे हितम् । सक्षारं कटुकं तिक्तमुष्णं वातघ्नमाविकम् ॥ ४९१ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:आविकं तिक्तकटुकं मूत्रमुष्णं च कुष्ठजित् । दुर्नामोदरशूलास्रशोफमेहविपापहम् ॥ ५०३ ॥
__ महिषीमूत्रम् ( मूत्रविशेषः ) ॥८॥ गुणाः-दुर्नामोदरशूलेषु कुष्ठमेहादिशुद्धिषु । आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ ४९२ ॥ __राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः
माहिषं मूत्रमानाहशोफगुल्माक्षिदोषनुत् । कटूष्णं कुष्ठकण्डूतिशूलोदररुजापहम् ॥ ५०४॥
गजमूत्रम् (मूत्रविशेषः ) ॥ ८१ ॥ गुणाः-सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् । तीक्ष्णं क्षारं किलासे च नागमूत्रं प्रयोजयेत् ॥ ४९३ ॥
१ झ. द. नातिकफार्तिजित् । २ ङ. शोफव' । ३ ट. पित्तजित् ।
For Private and Personal Use Only