________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः ] राजनिघण्टुसहितः।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:सटी सठी पलाशश्च षड्ग्रन्था सुव्रता वधूः। सुगन्धमूला गन्धाली शटिका च पलाशिका ॥ ८६ ॥ सुभद्रा च तृणी दूर्वा गन्धा पृथुपलाशिका । सौम्या हिमोद्भवा गन्धा वधूर्नागेन्दुसंमिता ॥ ८७ ॥
गुणाः-सटी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च । कफास्रकण्डूव्रणदोषहवी वक्त्रामयध्वंसकरी च सोक्ता ॥ ८८ ।।
गन्धपलाशः । (शढीविशेषः ) ॥ १२ ॥ अन्यो गन्धपलाशश्च स्थूलकस्तिक्तकन्दकः ॥६४ ॥ तापसी ज्वलनी चैव हरिद्रा पत्रकन्दका।
गुणाः-कासश्वासहरी सिध्माज्वरशूलानिलापहा ॥ ६५ ॥ सटी स्वर्या त्वधोमूला कषायकटुका सरा ।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:अन्या तु गन्धपत्रा स्यात्स्थूलास्या तिक्तकन्दका । वनजा सटिका वन्या स्तवक्षीर्येकपत्रिका ।। ८९ ।। गन्धपीता पलाशान्ता गन्धाढ्या गन्धपत्रिका। दीर्घपत्रा गन्धनिशा वेदभूहा सुपाकिनी ॥ ९० ॥
गुणाः-गन्धपत्रा कटुः स्वादुस्तीक्ष्णोष्णा कफवातजित् । कासच्छर्दिज्वरान्हन्ति पित्तकोपं करोति च ॥ ९१ ॥
__ (१८) मूलम् । मूलं पुष्करमूलं च पौष्करं पुष्कराहयम् । काश्मीरं पुष्करजटा वीरं तत्फलपत्रकम् ॥६६॥
गुणाः-तिक्तं पुष्करमूलं तु कटूष्णं कफवातजित् । ज्वरारोचककासनं शोफामानविनाशनम् ॥ ६७ ॥ श्वासं हिकां जयत्येव सेव्यमानं शनैः शनैः।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःमूलं पुष्करमूलं च पुष्कर पद्मपत्रकम् । पद्यं पुष्करजं बीजं पौष्करं पुष्कराह्वयम् ।। ९२ ॥ काश्मीरं ब्रह्मतीर्थ च श्वासारिमूलपुष्करम् । ज्ञेयं पञ्चदशादं च पुष्कराये जटाशिफे ॥ ९३ ॥
गुणाः-पुष्करं कटु तिक्तोष्णं कफवातज्वरापहम् । श्वासारोचककासनं शोफघ्नं पाण्डुनाशनम् ।। ९४ ॥
१ क. ख. ग. च. अन्या गन्धपलाशी च स्थलका तिक्तकन्दका ॥ ६४ ॥ ता ।२ झ. रा. हिमा । ३ झ. चिर।
For Private and Personal Use Only