________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०
धन्वन्तरीयनिघण्टुः
(१९) भार्गी । ( भाङ्गी )
भाग गर्दभशाकं च पद्मा ब्राह्मणयष्टिका । अङ्गारवल्ली फेञ्जी च सैव ब्रह्मसुवर्चसा ।। ६८ ।। शैक्रमाता च कासनी भृङ्गजा भागवा मता ।
-
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः - भाग स्यात्स्वरसे तिक्ता चोष्णा श्वासकफापहा । गुल्मज्वरासृग्वाती यक्ष्माणं हन्ति पीनसम् ॥ ६९ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
[ गुडूच्यादि:
भाग गर्दभशाक फी चाङ्गारवल्लरी । वर्षा ब्राह्मणयष्टिश्व वर्बरो भृङ्गजा च सा ।। ९५ ।। पद्मा यष्टिश्व भारङ्गी वातारिः कासजित्परम् । सुरूपा भ्रमरेष्टा च शक्रमाता च षोडश ।। ९६ ।।
गुणाः - भाग तु कटुतिक्तोष्णा कासश्वासविनाशनी । शोफणक्रिमिनी च दाहज्वरनिवारिणी ॥ ९७ ॥
( २० ) पाठा ।
*पाठाऽम्बष्ठाऽम्बष्ठकी च प्राचीना पापचेलिका । वरतिक्ता बृहत्तिक्ता पाठिका स्थापनी की ॥ ७० ॥ मालती च वरा देवी त्रिवृताऽन्या शुभा मता ।
गुणाः- पाठा तिक्ता रसा वृष्या विषन्नी कुष्ठकण्डुनुत् । छर्दिहृद्रोगज्वरराजत्रिदोषशमनी परा ॥ ७१ ॥ पाठाऽतिसारशूलघ्नी कफपित्तज्वरापहा । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
*पाठिका स्थापनी चैव श्रेयसी वृद्धिकर्णिका ॥ ९८ ॥ एकाष्ठीला कुचैली च दीपनी वरतिक्तका ।
तिक्तपुष्पा वरा तिक्ता दीपनी त्रिशिरा की ।। ९९ ।। मालवी च वरा देवी वृत्तपर्णी द्विता ।
श्वासारिः पद्मतीर्थं च पद्यं पुष्करसागरम् ।
गुणाः— वृक्षरोहं शूलहरं समूलं सुखसंभवम् ॥ ७२ ॥
गुणाः - पाठा तिक्ता गुरूष्णा च वातपित्तज्वरापहा । भग्नसंधानकृत्पित्तदाहातीसारशूलहृत् ॥ १०० ॥
श्वासारिः (पाठाविशेषः) ॥ १३ ॥
For Private and Personal Use Only
१ झ. फाञ्जी । २ क ङ. च. अयं वर्चो बर्बरुकस्तथा ॥ ६८ ॥ श । ३ झ. शुक्रमाता । ४ झ. 'वाग्रणीः । ५ क. ख. भाङ्गी । ६ क. पापवेलिका । ७ झ. तिक्तापूषा बृहत्तिक्ता ।