________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८
धन्वन्तरीयनिघण्टुः
[ गुडूच्यादि:
गुणाः - हरिद्रा स्वरसे तिक्ता रूक्षोष्णा विषंकुष्ठत् । कण्डूमेवणान्हन्ति देहवर्णविधायिनी ॥ ५६ ॥ विशोधनी कृमिहरा पीनसारुचिनाशिनी । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:--
3
हरिद्रा हरिद्रञ्जनी स्वर्णवर्णा सुवर्णा शिवा वर्णिनी दीर्घरागा । हरिद्री च पीता वराङ्गी च गौरी जनिष्ठा वरा वर्णदात्री पवित्रा ॥ ७९ ॥ हरिता रजनीनाम्नी विषघ्नी वरवर्णिनी । पिङ्गला वर्णिनी चैव मङ्गल्या मङ्गला च सा ।। ८० ।। लक्ष्मी भद्रा शिफा शोफा शोभना सुभगाह्वया । श्यामा जयन्तिका द्वे च त्रिंशन्नामविलासिनी ॥ ८१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः - हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् || मेहकण्डूणान्हन्ति देहवविधायिनी || ८२ ॥
(१६) दारुहरिद्रा |
ક
अन्या दारुहरिद्रा च पीतद्रुः पीतचन्दनम् ।। ५७ || निर्दिष्टा काष्ठरजनी सा च कालेयेकं स्मृतम् । कालायकं दारुनिशा दावीं पीतापर्तिकम् ॥ ५८ ॥ कटकटेरी पर्जन्या पीतदारु पचपचा । हेमवर्णवती पीता हेमकान्ता कुँसम्भका ।। ५९ ।
गुणाः -- तिक्ता दारुहारिद्रा स्याद्वृक्षोष्णा व्रणमेहजित् । कर्णनेत्रमुखोद्भूतां रुजं कण्डूं च नाशयेत् ॥ ६० ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
अन्या दारुहरिद्रा च दार्वी पीतद्रु पीतिका । कालेयकं पीतदारु स्थिररागा च कामिनी || ८३ || कटंकटेरी पर्जन्या पीतदारु निशा स्मृता । कालीयकं कामवती दारुपीता पचपचा ॥ ८४ ॥ स्यात्कर्कटकिनी ज्ञेया प्रोक्ता सप्तदशाह्वया ।
गुणाः - तिक्ता दारुहरिद्रा तु कटूष्णा व्रणमेहनुत् ॥ ८५ ॥ कण्डूविसत्वग्दोषविपकर्णाक्षिदोपनुत् ।
( १७ ) शढी । (सढी )
सटी सठी पलाशश्च ज्ञेया पृथुपलाशिका | सुगन्धमूला गन्धाली षड्ग्रन्था सुव्रता वधूः ॥ ६१ ॥ चन्द्राणी चन्द्रगन्धा च दुर्विधेयेतिसंज्ञिता ।। ६२ ॥ गुणाः सठी स्यातिक्ततीक्ष्णोष्णा संनिपातज्वरापहा ।। ६३ ।। कफोraणकासनी वक्त्रशुद्धिविधायिनी ।
१ क. घ. ड. °षमेहनु ं । २ ङ. कुष्ठ । ३ झ पित्ता । ४ झ. हरिद्रा । ५ क. च. का स्मृता । ग. घ. यकः स्मृतः । ६ क. घ. ङ. च. 'तका ॥ ५८ ॥ क । ७ घ ङ च कुसुम्भला ।
For Private and Personal Use Only