________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
(१४) पटोलः । ( पटोलम् ) पटोलः कुलकः प्रोक्तः पाण्डुकः कर्कशच्छदः ॥४९॥ राजीफलः पाण्डुफलो राजनामाऽमृताफलः।
गुणाः-वीर्यगर्भपतानश्च कुष्टहा कासमुक्तिदः ॥ ५० ॥ पटोलं कटुकं तीक्ष्णमुष्णं पित्तविरोधि च । कफामुक्कण्डुकुष्ठानि ज्वरदाहौ च नाशयेत् ॥५१॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:स्यात्पटोलः कटुफलः कुलकः कर्कशच्छदः । राजनामाऽमृतफलः पाण्डुः पाण्डुफलो मतः ॥ ७३ ॥ बीजगर्भो नागफलः कुष्ठारिः कासमर्दनः । पञ्चराजिफलो ज्योत्स्नी कुष्ठन्नः षोडशाहयः॥ ७४ ।।
गुणाः-पटोलः कटुतिक्तोष्णो रक्तपित्तबलासजित् । कफकण्डूतिकुष्ठासृग्ज्वरदाहार्तिनाशनः ।। ७५ ॥
स्वादुपत्रफला । (पटोलविशेषः ) ॥ ११ ॥ पटोली स्याद्वितीयाऽन्या स्वादुपत्रफला च सा। पटोलायास्तु पर्यायैर्योजयेद्भिषगुत्तमः ॥५२॥
गुणाः-पटोलपत्रं पित्तनं वल्ली चास्य कफापहा । फलं त्रिदोषशमनं मूलं चास्य विरेचयेत् ॥ ५३॥ ___ राजनिघण्टौ मूलकादिः सप्तमो वर्गः
ज्ञेया स्वादुपटोली च पटोली मण्डली च सा । पटोली मधुरादिः स्यात्प्रोक्ता दीर्घपटोलिका ॥ ७६ ॥ स्निग्धपर्णी स्वादुपूर्वैः पर्यायैश्च पटोलिका ।
गुणाः—पटोली स्वादुपित्तनी रुचिकृज्ज्वरनाशनी ॥ ७७ ॥ बलपुष्टिकरी पथ्या ज्ञेया दीपनपाचनी । पटोलपत्रं पित्तनं नालं तस्य कफापहम् ॥ ७८ ॥ फलं त्रिदोपशमनं मूलं चास्य विरेचनम् ।
(१५) हरिद्रा । हरिद्रा पीतिका पिङ्गा रजनी रञ्जिनी निशा । गौरी वर्णवती पीता हरिता वरवर्णिनी ॥ ५४॥
हलदीका भद्रलता ज्ञेया वर्णविलासिनी । विषघ्नी च जयन्ती च दीर्घरङ्गा तु रङ्गिणी ॥ ५५॥
१ज. राजीफ । २ घ. लारसा । ३ ख. घ. वजोत्तमैः । ग. 'पजां वरः । छः घग्वरैः । ४ क. ख. ग. घ. ड. रिद्रा व'। ५ क. हलादिका ।
For Private and Personal Use Only