SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःपठन्ती पाठवार्ता च बुद्धिमती भुसारिका ॥ ४७३ ॥ गोराष्ट्रिका गोकिराटी गौरिका कलहप्रिया। (८२) चक्रवाकः। चक्रवाकस्तु चक्राह्वश्चक्री चक्ररथो रथी । रथाङ्गनामा रथिकः कामी चक्रोऽथ चक्रवाक ॥ ४५४ ॥ गुणाः-चक्रवाको महास्निग्धः शुक्रलो गुरुरेव च । बल्योऽथ रुचिकृद्रातहरो दोषविनाशनः ॥ ४५५ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःचक्रः कोकश्चक्रवाको रथाङ्गो भूरिप्रेमा द्वंद्वचारी सहायः । कान्तः कामी रात्रिविश्लेषगामी रामावक्षोजोपमः कामुकश्च ॥ ४७४ ॥ (८३) हंसः। हंसः श्वेतो धार्तराष्ट्रो राजहंसो मनोरमः। कलहंसोऽपरः प्रोक्तो जलपादोऽथ बन्धुरः ॥ ४५६ ॥ अन्यच्च-कारण्डवः प्लवो मञ्जुर्वरटा हंसयोषिता। गुणाः-हंसः स्निग्धो गुरुदृष्यो वीर्योष्णः स्वरवर्णकृत् । वातास्रपित्तशमनो बृंहणो वलवर्धनः ॥ ४५७ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःहंसो धवलपक्षी स्याचक्राङ्गो मानसालयः । कलहंसस्तु कादम्बः कलनादो मरालकः ॥ ४७५ ॥ एतेषु चञ्चचरणेष्वरुणेषु राजहंसोऽपि धूसरतरेषु च मल्लिकाक्षः। कालेषु तेषु धवलः किल धार्तराष्ट्रः सोऽप्येष धूसरतनुस्तु भवेदभव्यः ।। ४७६ ।। हंसी तु वरटा ज्ञेया वरला वारला च सा । मराली मन्दगमना चक्राङ्गी मृदुगामिनी ॥ ४७७॥ (८४) कुकुटः। कुक्कुटस्ताम्रचूडश्च दक्षः शौण्डोऽथ विष्किरः। कालज्ञः कुकवाकुश्च नियोद्धा चरणायुधः॥ ४५८ ॥ गुणाः-कुकुटः स्निग्धरूक्षोष्णः स्वरानीन्द्रियदाळकृत् । बृंहणो वातहा वृष्यो लघुर्वलकरः स्मृतः । अन्यस्तद्वगुणो ग्राम्यो विशेषेण गुरुस्तथा ॥४५९॥ __राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः १ ङ. छ. चक्र: को कश्चक्रवाको रथाङ्गाख्यश्च कामुकः। रामास्तनोपमो रात्रिवियोगी द्वंद्वगः खगः । गु। २ झ. त्। स्निग्धोष्णो बृंहणो वृष्यः कुकुटो वातनाशनः । । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy