________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः ] राजनिघण्टुसहितः।
२७७ केकी भुजङ्गभोजी च मेघनादानुलासकः॥ ४६८ ॥ बहभारः कलापः स्यादईनेत्राणि चन्द्रकाः । प्रचलाकः शिखा ज्ञेया ध्वनिः केकेति कथ्यते ॥४६९॥
(७९) भ्रमरः (शिलीमुखः ) भ्रमरः षट्पदो भृङ्गो भृङ्गराजः शिलीमुखः । द्विरेफोलिमधुकरो मधुपो मधुलिट्स्मृतः ॥ ४४७ ॥ स च षट्चरणः प्रोक्तो झङ्कारी पुष्पलोलुपः । नीलो घुमुधुमारावी मधुकृन्मधुरस्वरः ॥ ४४८ ॥ अपरः क्षुद्रभृङ्गारः पूतिभृङ्गः कुभृङ्गकः।
गुणाः-भ्रमरो रूक्ष उष्णश्च तैलयोगेक्षणापहः (?) । कर्णरोगशिरोव्याधीन्मुखाद्यैश्चैव वीर्यवान् (?) ॥ ४४९॥
राजनिघण्टौं सिंहादिरेकोनविंशतितमो वर्गःभ्रमरः पदपदो भृङ्गः कलालापः शिलीमुखः । पुष्पन्धयो द्विरेफोऽलिर्मधुकृन्मधुपो द्विपः ॥ ४७० ॥ भसरश्चश्चरीकोऽली झङ्कारी मधुलोलुपः ।
(८०) शुकः। शुकः कीरो रक्तमुखो मेधावी प्रियदर्शनः । अन्यो महान्राजशुकः शतपत्रो निगद्यते ॥ ४५०॥
गुणाः—शुको बल्योऽतिवृष्यश्च वीर्यवृद्धिकरः परः। वातलो बृंहणो ज्ञेयस्तथा राजशुकः स्मृतः ॥ ४५१॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःशुकः कीरो रक्ततुण्डो मेधावी म पाठकः । अन्यो राजशुकः प्राज्ञः शतपत्रो नृपप्रियः ॥ ४७१॥
(८१) गोराटिका (सारिका) गोराटिका गोकिराटी गौरिका कलहप्रिया । मेधाविनी सारिकाऽन्या दूतिका प्रियवादिनी ॥ ४५२ ॥ ___ गुणाः-सारिका च भवेत्स्निग्धा वातला बृंहणी स्मृता ।वीर्यसंजननी वृष्या मेध्या चैव रसायनी ॥ ४५३ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःसारिका मधुरालापा दूती मेधाविनी च सा । कवरी कुत्सिताङ्गी च कष्कलाङ्गी सनालुकः(?)॥४७२॥ पीतपादा हुज्ज्वलाक्षी रक्तचञ्चश्व सारिका। १ ख. ग. झ. 'योगोक्षणा' । २ झ. ट. द्विभः। ३ ङ. छ. गोविराटी । ४ ङ. छ. श्लेष्मला ।
For Private and Personal Use Only