SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ धन्वन्तरीयनिघण्टुः- [सुवर्णादि: (७२) मत्स्यः । मत्स्यो मीनोऽथ शकुनी कण्ठी माङ्गल्यदर्शनः । रोहितः कण्ठकालश्च पाठीनः शकुली तथा ॥ ४०९॥ ___ गुणाः-कफपित्तहरा मत्स्या बल्याः शक्तिविवर्धनाः। व्यायामिनां च दीप्तानेय॑वायिनां च पूजिताः॥४१०॥ कपायानुरसाः स्वादुवातघ्ना नातिपित्तदाः। रोहितः सर्वमत्स्यानां वरो वृष्योऽर्धवातजित् ॥ ४११ ॥ कषायो मधुरो सूक्षो विशदो रोचनो लघुः । ग्राही तु नन्दिकावर्तस्तस्यानु सकलः स्मृतः ॥ ४१२ ॥ रञ्जीतच्छतशङ्ख च गोमत्स्योऽलिस्त्रिकण्टकः । कण्टकैः स तु विज्ञेयो मृक्षमाणः सुनिर्विषः । शृङ्गी तु वातशमनी तथा श्लेष्मप्रकोपनी ॥ ४१३ ॥ विपाके मधुरो वृष्यो मुद्गरो वातहा गुरुः । अलिमत्स्यो गुरुः स्निग्धः कषायो रूक्ष एव च ॥ ४१४ ॥ मुखमत्स्यो गुरुः स्निग्धः श्लेष्मलो वातनाशनः । इरसो मधुरः स्निग्धः पित्तश्लेष्मातिकोपनः ॥४१५ ॥ पुलङ्गः स्निग्धमधुरो गुरुर्विएम्भिशीतलः। लघवः क्षुद्रमत्स्यास्तु ग्राहिणो ग्रहणीहिताः ॥ ४१६ ॥ मत्स्यभेदाः-राजीवः शकुली शृङ्गी वागूशः शल्यचुल्लको। पाठीनः कुलिशश्चैव नद्यावर्तश्च रोहितः ॥ ४१७ ॥ मुद्गरस्तिमिरित्याद्या ज्ञेयास्तद्भेदजातयः । तद्भेदो मकराख्योऽन्यो मातङ्गमकरोऽपरः ॥ ४१८ ॥ चिरलुश्च तिमिश्चैव तथाऽन्यश्च तिमिङ्गिलः । तिमिङ्गिलगिलश्चेति महामत्स्या अमी मताः ॥ ४१९ ॥ रक्तोऽपरो रक्तमुखो रोहिषो मत्स्यपुङ्गवः । सहस्रदंष्ट्रः पाठीनः कृष्णवर्णो महाशिराः ॥ ४२० ॥ शफरः क्षुद्रमत्स्यश्च प्रोष्ठी तु शफरी स्मृता । जलमीनश्चिलिचिमो मीनः ख्यातः समुद्रजः ॥ ४२१ ॥ गुणाः-मत्स्या बलप्रदा वृष्या गुरवः कफपित्तलाः । उष्णाभिष्यन्दिनः स्निग्धा बृंहणाः पवनापहाः ॥ ४२२ ॥ नादेया बृंहणा मत्स्या गुरवोऽनिलनाशनाः । कोपा वृष्याः कफाष्ठीलामूत्रकृच्छविवन्धदाः ॥ ४२३ ॥ ताडागा गुरवो वृष्याः शीतला बलमूत्रलाः।साडागवन्निीरजा बलायुमतिदृक्कराः॥४२४॥ सरोजा मधुराः स्निग्धा बल्या वातनिवर्हणाः । सामुद्रा गुरवो नातिपित्तलाः पवनापहाः ॥ ४२५ ॥ तत्रापि लँवणाम्भोजा ग्राहिणो दृष्टिनाशनाः। ह्रदोद्भवा बलकरा न तु स्वच्छजलोद्भवाः ॥ ४२६ ॥ हेमन्ते कृपजा मत्स्याः शिशिरे सारसा हिताः। मधुग्रीष्माम्बुकालेषु नदीचूडीतडागजाः ॥ ४२७ ॥ शरत्सु नैझराः सर्वे वर्षोत्थाः सर्वदोषदाः । विपाके मधुरा वृष्या इति मत्स्याः १ झ. प्योऽदितातिजि' । २ झ. वृष्यो । ३ झ. विषघ्नो। ४ 'तपुच्छश । ५ ण. गुगलः । ६ झ. नीलवर्णाभा। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy