SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःगुणाः-हणो रसवीर्ये च वातघ्नः कफपित्तलः । कषायो दीपनीयश्च योग्यः श्लेष्मसुशीतलः ॥ ३८६ ॥ छागमांसं गुरु स्निग्धं लघु पकं त्रिदोषनुत् । अदाहि रुचिदं नातिशीतं पीनसनाशनम् ॥ ३८७ ॥ देहधातुसमानत्वादनभिष्यन्दि दीपनम् । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः-- अजो बुक्कश्च मेध्यः स्याल्लम्बकर्णः पशुश्च सः । छागलो बर्करश्छागस्तुभो वस्तः पयस्वलः ॥ ४०४ ॥ अना-अजा पयस्विनी भीरुश्छागी मेध्या गलस्तनी। राजनिघण्टौ मांसादिः सप्तदशो, वर्गः-- गुणाः—छागमांसं लघु स्निग्धं नातिशीतं रुचिप्रदम् । निर्दोपं वातपित्तनं मधुरं वलपुष्टिदम् ॥ ४०५ ॥ छागपोतभवं मांसं लघु शीतं प्रमेहजित् । ईपल्लघु बलं दत्ते तदेव तृणचारिणः ॥ ४०६ ॥ (६४) भेडः । भेडो मेपो हुडो मेण्द उरभ्र उरणोऽविकः । अविः पशुस्तथैवैड एडकः पृष्ठशृङ्गकः ॥ ३८८ ॥ ऊर्णायू रोमशो वृष्णिर्मदपुच्छस्तु बर्बुकः। गुणाः-औरभ्रं वृंहणं मांसं सर्वदोषकरं गुरु । उष्णं स्निग्धमभिष्यन्दि न पथ्यं बलकृत्परम् ॥ ३८९ ॥ मेषमांसं गुरु स्निग्धं बल्यं पित्तकफपदम् । मेपपुच्छामिषं वृष्यं कफपित्तकरं गुरु ॥ ३९० ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:एडकः शृङ्गिणोऽपि स्यादुरभ्रो रोमशो बली । नानादेशविशेषेण मेषा नानाविधा अमी ॥ ४०७॥ राजनिघण्टौ मांसादिः सप्तदशो वर्गःगुणाः-औरभ्रं मधुरं शीतं गुरु विष्टम्भि बृंहणम् । आविकं मधुरं मांसं किंचिद्गुरु बलप्रदम् ।। ४०८॥ (६५) ईहामृगः। (वृकः) ॐईहामृगस्तु कोकः स्यादृको वत्सादनोऽविभुक् । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः* । गोवत्सारिश्छागलारिश्छागलान्तो जलाश्रयः ॥ ४०९ ॥ ५ ङ. बृंहणम् । २ झ. को वृत्मा। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy