________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
धन्वन्तरीयनिघण्टुः- [सुवर्णादिःव्याल उच्यते । प्रभिन्नो गर्जितो भ्रान्तो मत्तो मदकलश्च सः ॥ ३८९ ॥ हस्तिनी-इभी तु करिणी ज्ञेया हस्तिनी धेनुका वशा । करेणुः पद्मिनी चैव मातङ्गी वासिता च सा ॥ ३९० ॥
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:गुणाः-हस्तिकव्यं गुरु स्निग्धं वातलं श्लेष्मकारकम् । बहुपुष्टिमंदं चैव दुर्जरं मन्दवद्विदम् ॥ ३९१ ॥
(६०) घोटः। (अश्वः) घोटोऽश्वस्तुरगो वाजी हरिहंसस्तुरङ्गमः । शालिहोत्रो जवी सप्तिस्तुरङ्गश्च ययुर्हयः ॥ ३७८ ॥ घोटिका–घोटिका वडवा वामी प्रसूकाऽश्वा च वाजिनी।
गुणाः-आश्वं सलवणं स्निग्धं बल्यं च गुरु बृंहणम् । घोटकस्तु कटुः पाके दीपनः कफपित्तनुत् ॥ ३७९ ॥ वातहृबृंहणो बल्यश्चक्षुष्यो मधुरो लघुः ।
राजनिघण्टौ सिंहादिरेकोनविंशतितमो वर्गःअश्वो घोटस्तुरङ्गोर्वा तुरगश्च तुरङ्गमः । वाहो वाजी मुद्गभोजी वीतिः सप्तिश्च सैन्धवः ॥ ३९२ ॥ हरिहयश्च धाराटो जवनो जीवनो जवी । गन्धर्वो वाहनश्रेष्ठः श्रीभ्राताऽमृतसोदरः ॥ ३९३ ॥
अश्वभेदाः-आरदृसिन्धुजवनायुजपारसीककाम्बोजवाहिकमुखा विविधास्तुरङ्गाः । साम्राणशेफकमुखा अपि देशतः स्युर्वर्णेन तेऽपि च पुनर्बहुधा भवन्ति ॥ ३९४ ॥ श्वेतः कर्कः सोऽथ रक्तस्तु शोणो हैमः कृष्णो नीलवर्णस्तु नीलः । शुभैनॆत्रैमल्लिकाक्षो निदिष्टः कृष्णैरुक्तः सोऽयमिन्द्रायुधाख्यः ॥ ३९५ ॥ इत्थं नानावर्णभेदेन वाजी ज्ञातव्योऽयं लोकरूडैः सुधीभिः । अत्रास्माभिर्न प्रपञ्चः कृतोऽस्मादाजानेयोऽप्यत्र वाजी कुलीनः ॥ ३९६ ॥ सुकुलः सुविनीताश्वः किशोरस्तुरगार्भकः । वाजिनी वडवा चापि प्रसूरश्वाऽश्विनी च सा ॥ ३९७ ॥
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:गुणा:-अश्वमांसं भवेदुष्णं वातघ्नं बैलदं लघु । पित्तदाहप्रदं नृणां तदेतच्चातिसेवनात् ॥ ३९८ ॥
(६१) उष्टः। उष्ट्रः क्रमेलको धूम्रः करभो दीर्घमार्गगः।ग्रीवाशः कुनासश्च दीर्घग्रीवोऽथ धूसरः ॥ ३८० ॥ वऋग्रीवो दीर्घजयो धूम्रो दासेरको मयः । १८. दं चेष(र्ज । २ इ. ट.'माणिधूपरिमु। ३ झ. ढ. धास्यः । । ४ ट. रोगदं । ज. गौरवं ।
For Private and Personal Use Only