________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ २६५
राजनिघण्टुसहितः। राजनिघण्टौ मनुष्यादिरष्टादशो वन:अस्थिसारस्तु मज्जा स्यात्तेजो बीजं तथाऽस्थिजम् । जीवनं देहसारश्च तथाऽस्थिस्नेहसंज्ञकम् ॥ ३८२॥
(५७) रसः । रसः प्राणपदः पथ्यं षड्रसो ह्यन्नसंभवः। रक्तस्य धातुकर्ता च स च रक्तपिता स्मृतः ॥ ३७४॥
राजनिघण्टौ मनुष्यादिरष्टादशो वर्गःरसस्तु रसिका मोक्ता स्वेदमाता वपुःस्रवः। चर्माम्भश्चर्मसारश्च रक्तसूरसमातृका ॥ ३८३ ॥
(५८) सप्त धातवः। रसादक्तं ततो मांसं मांसान्मेदोऽस्थि मेदसः। अस्थ्नो मज्जा ततः शुक्रमिति तेषां जनिक्रमः ॥ ३७५ ।।
राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:रसामृङ्मांसमेदोस्थिमज्जानः शुक्रसंयुताः। शरीरस्थैर्यदाः सम्यग्विज्ञेयाः सप्त धातवः ॥ ३८४॥ रसादस्रं ततो मांसं मांसान्मेदोऽस्थि तद्भवम् । अस्थ्नो मज्जा ततः शुक्रमित्थमेषां जनिक्रमः ॥ ३८५ ॥
(५९) हस्ती । हस्ती द्विपो गजो नाग इभोऽथ द्विरदः करी। वारणः कुञ्जरो दन्ती मातङ्गः पष्टिहायनः ॥ ३७६ ॥ कुम्भी स्तम्बेरमः पनी सिन्धुरश्च मतङ्गजः । करेणुः करिणी प्रोक्ता कलभः करिशावकः ॥ ३७७ ॥ हस्तिनी धेनुका ज्ञेया गजस्त्री गजगामिनी। गुणाः-हस्ती कफानिलौ हन्यादुष्णः पित्तास्रकोपनः ।
राजनिघण्टौ सिंहादिरेकोनविंशतितमो वर्गःद्विरंदगजमतङ्गजेभकुम्भिद्विरदनवारणहस्तिपद्मिनागाः । करिकरटिविषाणिकुञ्जरास्ते रदनिमदावलंसंमदद्विपाश्च ॥ ३८६ ॥ भद्रः स्तम्बेरमो दन्ती द्रुमारिः षष्टिहायनः । मातङ्गः पुष्करी दन्तावलश्चानेकपस्त्विभः ॥ ३८७ ॥ __ त्रिविधगजनामानि–भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः । वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः॥ ३८८ ॥ स वालः कलभो ज्ञेयो दुर्दन्तो
१ झ. ट. ढ. लसामजद्वि। २ झ. ट. जाः । सुदन्तो बालभो। ३ ज. दुर्दान्तो ।
For Private and Personal Use Only