________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६४
धन्वन्तरीयनिघण्टुः
( ५१ ) अस्थि ।
अस्थि हहुं बलकरं संधानं देहधारणम् । सकलं मांसलिप्तं च सर्वमेद:समुद्भवम् ॥ ३६९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
(५२ ) आमिषम् (मांसम् )
आमिषं लोभनं मांसं रस्यं शोणितसंभवम् । अङ्गजं पिशितं कीरं क्रव्यं राक्षसभोजनम् || ३७० ॥
राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:
मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् । पललं जाङ्गलं कीरमामिषं च तदुच्यते ॥ ३७९ ॥
[ सुवर्णादि:
(५३) वना ( वसा )
dar वसा पीतधरा मेदोमांससमुद्भवा । सर्वस्नेहमधाना च वसाऽस्थिजननी तथा ।। ३७१ ॥
राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:
वसा तु वस्त्रसा स्नायुर्वत्सोक्ता देहवल्कलम् ।
( ५४ ) रक्तम् ।
रक्तं तु शोणितं विस्रमसृग्लोहितमेव च । आग्नेयमामिषकरं प्राणदं रससंभवम् ।। ३७२ ।। अशुद्धं रुधिरं चैव रक्तनाम प्रकीर्तितम् । राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:
रक्तास्ररुधिरत्वग्जकीलालक्षतजानि तु । शोणितं लोहितं चासृक्शोणं लोहं च चर्मजम् ।। ३७३ ।।
( ५५ ) शुक्रम् ।
शुक्रं तेजो बलं पुंस्त्वं पौरुषं हर्षसंभवम् । रेतो वीर्य वृद्धिकरं शिरस्थं सप्तधातुजम् || ३८० ॥
राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:
अस्थिसारस्तथा मज्जां वीजं तेजोऽस्थिसंभवम् ।
शुक्रं पुंस्त्वं रेतो बीजं वीर्ये च पौरुषं कथितम् । इन्द्रियमन्नविकारो मज्जरसो हर्षणं बलं चैव ॥ ३८१ ॥
( ५६ ) अस्थिसारम् (मजा )
१ ङ. छ. ण. त. विसा । २ ण. 'ज्जा जीवते' ।
For Private and Personal Use Only