________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
धन्वन्तरीयनिघण्टुः- [सुवर्णादिःभोजने वारि भुक्तस्योपरि तद्विषम् ॥ ३४४ ॥ तृषितो नैव भुञ्जीत क्षुधितो न जलं पिवेत् । तृपितस्य भवेद्गुल्मः क्षुधितस्य भगंदरः ॥ ३४५ ॥ भुक्तस्याऽऽदौ जलं पीतमग्निसादं कृशाङ्गताम् । अन्ते करोति स्थूलत्वमूर्ध्वमामाशये कफम् ॥ ३४६ ॥ मध्ये मध्याह्नतां सम्यग्धातूनां जरणं मुखे ।
भूमिभागविशेषेण जलगुणाः-भूमिः पञ्चविधा ज्ञेया कृष्णा रक्ता सिता तथा। पीता नीला भवेचान्या गुणास्तासां प्रकीर्तिताः॥३४७॥ कृष्णा च मधुरा क्षारा कपाया पीतवणिनी ।रक्ता सा च भवेत्तिक्ता मधुराम्ला सिता तथा॥३४८॥ नीला सकटुका ज्ञेया भूविभागाजलं विदुः। सघनं मधुरं नीरं कृष्णभूमिप्रतिष्ठितम् ॥ ३४९ ॥ पीताश्रितं कषायं रक्तायाः पित्तगुणं स्मृतम् । सिताया मधुराम्लं नीलायाः कटुगुणं स्मृतम् ॥ ३५० ॥ जलं पञ्चविधं ज्ञेयं भूमिभागेन लक्षयेत् ।
नारिकेरोदकगुणाः-वृष्यं पिपासादाहघ्नं नारिकेरोदकं लघु । तदेव जीर्ण विष्टम्भि गुरु पित्तकरं स्मृतम् ॥ ३५१ ॥
राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गःपानीयजीवनवनामृतपुष्कराम्भःपाथोम्बुशम्बरपयःसलिलोदकानि । आपः कवारुणकबन्धजलानि नीरकीलालवारिकमलानि विषाणसी च ॥३१७ ॥ भुवनं दहनारातिर्वास्तोयं सर्वतोमुखं क्षीरम् । घनरसनिम्नगमेघप्रसवरसाश्चेति वह्निमिताः ॥ ३१८॥
गुणाः-*। * ॥ ३१९ ॥ दिव्योदकं खवारि स्यादाकाशसलिलं तथा । व्योमोदकं चान्तरिक्षजलं चेप्वभिधाह्वयम् ॥ ३२०॥
गुणाः-रुच्यं दीपनदं तृष्णाश्रममेहापहारकम् । व्योमोदकं त्रिदोषघ्नं मधुरं पथ्यदं परम् ॥ ३२१ ॥ सद्योवृष्ट्यम्बु भूमिस्थं कलुषं दोषदायकम् । चिरस्थितं लघु स्वच्छं पथ्यं स्वादु सुखावहम् ॥ ३२२ ॥ .
समुद्रजलम्-यादोनाथसमुद्रसिन्धुजलदाकूपारपाथोधयः पारावारपयोधिसागरसरिनाथाश्च वारांनिधिः । अम्भोराशिसरस्वदम्बुधिनदीनाथाब्धिनित्यार्णवोदन्वद्वारिधिवार्धयः कधिरपांनाथोऽपि रत्नाकरः ।। ३२३ ॥
गुणाः-सागरसलिलं विसं लवणं रक्तामयप्रदं चोष्णम् । वैवर्ण्यदोषजननं विशेषदाहार्तिपित्तकरणं च ॥ ३२४ ॥
नदी धुनी निर्झरिणी तरङ्गिणी सरस्वती शैवलिनी समुद्रगा। कूलंकषा कूलवती च निम्नगा शैवालिनी सिन्धुरथाऽऽपगाऽपि च ॥ ३२५ ॥ हदिनी
For Private and Personal Use Only