________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
धन्वन्तरीयनिघण्टुः
[ सुवर्णादि:सर्वेषां देहिनां परिकीर्तितम् || ३०६ || दिव्यवाय्वग्निसंयोगात्संहताः खात्पतन्ति याः । शिलाप्रकारवद्धास्ताः करका अमृतोपमाः || ३०७ ॥ अपविद्धाः समुद्रान्ते वरापस्तदुद्भवाः । धूमावयवनिर्मुक्तास्तुपाराख्यास्तु ताः स्मृताः ॥ ३०८ ॥ प्राक्समुद्राम्बुसंपर्कसमीरणसमन्विताः । दिवा सूर्याशुसंतप्तं निशि चन्द्रांशुशीतलम् । कालपक्कमनिर्दोषमगस्त्युदयनिर्विषम् ।। ३०९ ।। हंसोदकमिति ख्यातं शारदं शीतलं शुचि । स्नानपानावगाहेषु शस्यते तु यथामृतम् || ३१० || चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् । नादेयं वातलं रूक्षं दीपनं लघु लेखनम् ।। ३११ ।। तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् । तृष्णानं सारसं बल्यं कषायं मधुरं लघु ॥ ३१२|| ताडागं वातलं स्वादुकषायं कटुपाकि च । वातश्लेष्महरं वाप्यं सक्षारं कटुपित्तनुत् ।। ३१३ ।। चौण्ट्यमग्निकरं रूक्षं मधुरं कफन्न च । कफनं दीपनं मोक्तं लघु प्रस्रवणोद्भवम् ।। ३१४ ।। सक्षारं पित्तलं कौ श्लेप्मन्नं लघु दीपनम् । मधुरं पित्तशमनमविदाद्यद्भिदं स्मृतम् ॥ ।। ३१५ ।। कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् । तद्वत्पाल्वलमुद्दिष्टं विशेपादोपलं तु तत् ॥ ३१६ || सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् । नद्यः पापाणनिर्भिन्नाः क्षुभितोन्नाहतोदकाः || ३१७ || हिमवत्प्रभवाः पथ्याः पुण्या देवर्षिसेविताः । नद्यः पाषाणसिक्ताश्च वाहिन्यो विमलोदकाः || ३१८ ॥ मलयप्रभवा याच तज्जलं त्वमृतोपमम् । पश्चिमाभिमुखा याश्च पथ्यास्ता निर्मलोकाः || ३१९ || प्रायो मृदुवहा गुर्यो याथ पूर्वसमुद्रगाः । पारियात्रभवा याश्च विन्ध्यसह्यभवाश्च याः || ३२० || शिरोद्रोगकुष्ठादिहेतुस्ताः श्लीपदस्य च । चन्द्रार्ककरसंस्पृष्टं वायुनाऽऽस्फालितं बहु || ३२१ ।। पर्वतोपरि यद्वारि समं पौरंदरेण तु । तस्यानुगुणमुद्दिष्टं शैल्यप्रस्रवणोद्भवम् ।। ३२२ ।। लेखनं दीपनं रूक्षं किंचिद्वातप्रकोपनम् । अनूपदेशजं वारि तत्सान्द्रं गुरु पिच्छलम्
* आयुर्वेदविज्ञाने -पाषाणैरिष्टकाभिर्वा बद्धकूपा बृहत्तरा । ससोपाना भवेद्वापी तज्जलं वाप्यमुच्यते ॥
+
आयुर्वेदविज्ञाने शिलाकीर्ण स्वयं श्वभ्रं नीलाञ्जनसमोदकम् । लतावितानसंछन्नं चौड्यमित्यभिधीयते ॥ क्वचित्पुस्तकेषु चौण्ट्य इति पाठो दृश्यते ।
$ आयुर्वेदविज्ञाने - भूमौ खातो ऽल्पविस्तारो गम्भीरो मण्डलाकृतिः। बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौपमुच्यते ॥
+ आयुर्वेदविज्ञाने—विदार्य भूमिं निम्रां यन्महत्या धारया स्रवेत् । तत्तोयमौद्भिदं नाम वदन्तीति महर्षयः ॥
1 'मधुरं श्लेष्मजननं स्निग्धं पावकसादनम् । जाड्यगद्गगवावीयं सक्लेशारोचकापहम्' इत्यधिकः कोण. पुस्तके |
१ झ. अपि नद्याः स । २. न्ते चाग्नेरा । ३ झ. प्राच्यावन्त्यभवा ।
For Private and Personal Use Only