________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः] राजनिघण्टुसहितः।
२५५ तु सर्व सकलामयनं बलप्रदं वृष्यकरं च दीपनम् ॥३१४॥ अन्यच्च-मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्तिषु । द्विजैस्त्रीभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन्मृतम्॥३१५॥ अन्ये द्वादशधा मद्यभेदानाहुर्मनीषिणः । उक्तेष्वन्तर्भवन्तीति नान्यैस्तु पृथगीरिताः ॥ ३१६ ॥
(३९) *आसवः। 'विद्यादरिष्टसंधानं सुखं संजातमासवम् । +गुणाः-आसवो रूक्षणीयश्च स च पानमधुश्रेयः॥ २९९ ।।
शर्करासवगुणाः-शार्करः सुरभिः सौम्यो माधवो रूक्षणात्मकः। आसवो मुखवासश्च सुकुमारः सुयोजितः ॥ ३०० ॥
(राजनिघण्टावासवस्य पर्यायनामानि गुणा वा न दृश्यन्ते)
(४०) मर्जिका ( मज्जिका ) मर्जिका शिखरिण्युक्ता रसाला सुरभिस्तथा । उल्बणी खाण्डवरसा चातुजर्जातकसंगता ॥ ३०१॥ *गुणाः-मणिकाया गुणा ज्ञेया वीजद्रव्यगुणैः समाः। (राजनिघण्टौ मजिकाशब्दस्य पर्यायनामानि गुणा वा न दृश्यन्ते)
(४१) पानीयम् ( जलम् ) पानीयमापः कीलालं नीरं कं सलिलं जलम् । अमृतं वारुणं तोयं वार्यम्भोऽम्बूदकं पयः ॥ ३०२॥
गुणाः—साधारणं जलं रुच्यं दीपनं पाचनं लघु। श्रमतृष्णापहं वातकफमेदोनपुष्टिदम् ।। ३०३ ॥*पानीयं मधुरं हिमं च रुचिदं तृष्णाविशोपापहं मोहभ्रान्तिमपाकरोति कुरुते भुक्तानपक्तिं पराम् । *निद्रालस्यनिरासनं विपहरं भ्रान्तार्तसंतर्पणं नृणां धीबलवीयवृद्धिजननं नष्टाङ्गपुष्टिप्रदम् ॥ ३०४ ॥ गगनाम्बु त्रिदोपघ्नं गृहीतं यत्सुभाजने । वल्यं रसायनं मेध्यं पात्रापेक्षी ततः परम् ॥ ३०५ ॥ अनातेवं विमुञ्चन्ति वारि वारिधरास्तु यत । तत्रिदोषाय
* भावप्रकाशे-'आसवः' -यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः । आसवस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः।
भावप्रकाशे-' अरिष्टम्'-पकौषधाम्बुसिद्धं यन्मद्यं तत्स्यादरिष्टकम् । अरिष्टं लघु पाकेन सर्वतश्र गुणाधिकम् ।
+ सुरादिप्रकरणे विस्तरेण गुणाः कथिताः सन्ति तस्मात्तत्र द्रष्टव्यम् ।
* सुरादिप्रकरणे विस्तरेण गुणः कथिताः सन्ति तस्मात्तत्र द्रष्टव्यम् । १ ज. ट. 'जेस्त्रिभि । २. छ. पानं म । ३ झ. छ. त. 'श्रयम् । शा।
For Private and Personal Use Only