________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःराजनिघण्टौ पानीयादिश्चतुर्दशो वर्गःमद्यं सुरा प्रसन्ना स्यान्मदिरा वारुणी वरा । मत्ता कादंबरी शीता चपला कामिनी प्रिया ।। ३०१ ॥ मदगन्धा च माध्वीकं मधु संधानमासवः । परिमृताऽमृता वीरा मेधावी मदनी च सा ॥ ३०२ ॥ सुप्रतिभा मनोज्ञा च विपाना मोदिनी तथा । हालाहलगुणारिष्टं सरकोऽथ मधूलिका ॥ ३०३ ॥ मदोत्कटा महानन्दा द्वात्रिंशदभिधाः क्रमात् ।
गुणाः—मद्यं सुमधुराम्लं च कफमारुतनाशनम् । बलदीप्तिकरं हृद्यं सरमेतन्मदावहम् ॥ ३०४ ॥ मद्यं तावत्रिविधं *गौडी 'माध्वी च पैष्टिका चेति । अन्यच्च सैन्धिकादि द्रव्यान्तरयोगतो विविधम् ॥ ३०५॥ स्याद्धातकीरसगुडादिकृता तु गौडी पुष्पद्रवादिमधुसारमयी तु माध्वी । पैष्टी पुनर्विविधधान्यविकारजाता ख्याता मदाधिकतयाऽत्र च पूर्वपूर्वा ॥ ३०६ ।। तालादिरसनिर्यासैः सैन्धी हालां सरां जगः । नानाद्रव्यकदम्बेन मद्यं कादम्बरं स्मृतम् ॥ ३०७॥ सैन्धी कादम्बरी चैव द्विविधं मद्यलक्षणम् । गौडी तीक्ष्णोष्णमधरा वातहत्पित्तकारिणी ॥ ३०८ ॥ बलकृद्दीपनी पथ्या कान्तिकृतर्पणी परा । मावी तु मधुरा हृया नात्युष्णा पित्तवातहृत् ॥ ३०९ ॥ पाण्डुकामलगुल्मार्शःप्रमेहशमनी परा । पैष्टी कैटूष्णा तीक्ष्णा स्यान्मधुरा दीपनी परा ॥ ३१० ॥ सैन्धी शीता कपायाम्ला पित्तहृद्वातदा च सा । सर्वेषां तृणक्षाणां निर्यासं शीतलं गुरु ॥ ३११ ॥ मोहनं बलकूद्धृद्यं तृष्णासंतापनाशनम् । ऐक्षवं तु भवेन्मद्यं शिशिरं च मदोत्कटम् ।। ३१२ ।। यवधान्यकृतं मयं गुरु विष्टम्भदायकम् । शर्कराधातकीतोये कृतं शीतं मनोहरम्।।३१३॥ शार्करं कथ्यते मद्यं वृष्यं दीपनमोहनम् । ( *गौडी तु शिशिरे पानं पैष्टी हेमन्तवर्पयोः। शरद्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा । कादम्बरीशाकरजादिमा सुशीतलं वृष्यकर मदान्यम् । माध्वीसमं स्यात्तृणवृक्षजातं मयं सुशीतं गुरुतर्पणं च । अन्यथा कुर्वतः पानं मद्यं संतापदोपदम् । अन्नद्वेपमदात्यादिकारकं मर्छनं च तत् )। विशेषगुणाः-मयं नवं सर्वविकारहेतुः सर्व तु वातादिकदोषदायि । जीणं * आयर्वेदविज्ञाने –धातकीगुडमुख्या या गोडी सा मदिरोच्यते। 'आयर्वदविज्ञाने—मध्वादिविहिता या तु माध्वी सा मदिरोच्यते । *आयुर्वेदविज्ञाने--कृता वहुविधैर्धान्यः पैष्टीति मदिरोच्यते।
* धनुश्चिद्वयगतं टपुस्तके धिकं दृश्यते ।
१ ट. कट्वम्लती।
For Private and Personal Use Only