________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१
६ षष्ठो वर्गः ] राजनिघण्दुसहितः।
गुणाः-दाहज्वरापहं स्पर्शात्पानाद्वातकफापहम् । विबन्धनमवस्रसि दीपनं चाम्लकाञ्जिकम् ॥ २५० ॥ ___ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः
काञ्जिकं काञ्जिका वीरं कुल्माषाभिभवं तथा। अवन्तिसोमं धान्याम्लमारनालोऽम्लसारकः ॥ २९४ ॥ ___गुणाः—काञ्जिकं वातशोफन्नं पित्तनं ज्वरनाशनम् । दाहमूर्छाश्रमन्नं च शूलाध्मानविवन्धनुत् ॥ २९५ ॥ काञ्जिकं काञ्जितैलं च पलितं वातकारकम् । दाहकं गात्रशैथिल्यं भक्षणान्न च मर्दनात् ॥ २९६ ॥
सौवीरं, तुषोदकं च ( काञ्जिकविशेषः ) ॥ ६५ ॥ सौवीरकं सुवीराम्लं यवगोधूमसंभवम् । यवाग्रज यवोत्थं च तुषोदं च तुपोदकम् ॥ २५१॥ ___ गुणाः—जरणीयं च हृत्पाण्डुकृमिरोगविदाहनुत् । ग्रहण्यर्थोहितं भेदि सौवीरं च तुषोदकम् ।। २५२॥ गौडानि रससूक्तानि मधुसूक्तानि यानि च । यथापूर्व गुरुतराण्यभिप्यन्दकराणि च ॥ २५२ ॥ यन्मस्त्वादि शुचौ भाण्डे सगुडं क्षौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं सूक्तं चुकं तदुच्यते ॥ २५४ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:सौवीरकं सुवीराम्लं ज्ञेयं गोधूमसंभवम् । यवाम्लजं यवोत्थं च तुषोत्थं च तुपोदकम् ॥ २९७ ॥
गुणाः--तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् । सौवीरकं चाम्लरसं केश्यं मस्तकदोपजित् । जराशैथिल्यहरणं बलसंतर्पणं परम् ॥ २९८ ॥ तण्डुलोत्थं तण्डुलाम्बु कपायं मधुरं लघु । संग्राहि विषविच्छदितृड्दाहवणनाशकत् ॥ २९९ ॥ अन्नोदजः शिवरसख्य हात्पर्युपिते रसे । दीपनो मधुराम्लस्तु दाहजिल्लघुतर्पणः ॥ ३००॥
. (३८) सुरा। सुरा मद्यं प्रसन्ना स्यान्मदिरा *वारुणी रसा । वरा मण्डा मदकरी माधवी वरुणात्मजा ॥ २६२ ॥ इरा कादम्बरी हाला जगलो मेदको मता । मद्यजा
* वारुणी '- 'पुनर्नवाशिलापिटेर्वारुणी विहिता स्मृता। सहितैस्तालखर्जुररसर्या साऽपि वारुणी' इति भावप्रकाशे।
१ ज. ट. तिलतैलं । २ ट. छ. गदोन्मादकोबला । म ।
For Private and Personal Use Only