________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५०
धन्वन्तरीयनिघण्टुः
[ सुवर्णादिः -
अर्घ्यं मध्वतिचक्षुष्यं कफपित्तादिदोषहत् ॥ २८२ ॥ औद्दालकं तु कुष्ठादिदोषघ्नं सर्वसिद्धिदम् । दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥ २८५ ॥ नवं मधु भवेत्स्थौल्यं नातिश्लेष्मकरं परम् । देहस्थौल्याप ग्राहि पुराणं मधुलेखनम् || २८६ ॥ *पक्वं दोषत्रयनं मधु विविधरुजाजाड्यजिह्वामयादिध्वंसं धत्ते च रुच्यं बलमतिधृतिदं वीर्यवृद्धिं विधत्ते । आमं चेदामगुल्मामयपवनरुजापित्तदाहास्रदोपमातन्वानं विशोषं जनयति नयति ध्वंसमष्टाङ्गवृद्धिम् ॥ २८७ ॥ व्रणशोधनसंधाने व्रणसंरोपणादिषु । साधारण्या मधु हितं तत्तुल्या मधुशर्करा ॥ २८८ ॥ उष्णैः सहोष्णकाले वा स्वयमुष्णमथापि वा। मं मधु मनुष्याणां विषवत्तापदायकम् ।। २८९ ।। कीटकादियुतमम्लदूषितं यच्च पर्युषितकं मधु स्वतः । कण्टकोटरगतं च मेचकं तच्च गेहजनितं च दोषकृत् ।। २९० ।। दण्डैर्निहत्य यदुपात्तमपास्तदंशं तादृग्विधं मधु रसायनयोगयोग्यम् । हिक्कागुदाङ्कुरविशोफकफत्रणादिदोषापहं भवति दोषदमन्यथा चेत् ॥ २९१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
( ३६ ) सूक्तम् ।
सूक्तं सहस्रवेधं च रसाम्लं चुक्रमेव च । मुक्तसारं तथा चोक्तं दहनं नीलकारकम् । विविधाभिमतं चण्डं भेदनं चाम्लमेव च ॥२४६॥
गुणाः रक्तपित्तकरं सूक्तं सद्योभुक्तविपाचनम् । जरणं भेदनं पाण्डुकृमिरोगहरं लघु ॥ २४७ ॥ तीक्ष्णोष्णं मूत्रलं हृद्यं कफनं कटुपाकि च । तद्वत्तदाँश्रितं सर्व रोचनं तु विशेषतः ।। २५५ ।।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:
चुकं सहस्रवेधं च रसाम्लं चक्रवेधकम् । शाखाम्लभेदनं चैवमम्लसारं च चुक्रिका ।। २९२ ।।
गुणाः- चुक्रं तिक्ताम्लकं स्वादु कफपित्तविनाशनम् । नासिकागद दुर्गन्धशिरोरोगहरं परम् ।। २९३ ॥
( ३७ ) काञ्जिकम् ।
८
काञ्जिकं चैव सौवीरं कुल्माषाभिभवं तथा । अवन्तिसोमं धान्याम्लमारनालं महारसम् ।। २४९ ॥
**
पक्कम् ' - कढलेलें इति ख्याते ।
१ ज. स्थालं ना । २ ८. 'व्यं मल । ३ ८. म् । बालाशों । ४ झ. द. अन्नं । ५ ङ, छ, "तहरं । ६ ङ. छ. ये कटु पाके विदाहि च । ७ झ. 'दासुतं । ८ झ भिषुतं ।
For Private and Personal Use Only